SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir तत्र २ शक्तिः कल्प्या, चकारादेश्च द्योतकत्व इत्यतिगौरवं स्यादिति समुच्चयाधिकरणे स्थितम् , तदयमकस्मात् पीतामृतानामिव निपातानां द्योतकत्ववाचकत्वयोरनेकान्तोद्गारः। अस्माकं तु सदापीतानेकान्तामृतानाम् “अनेकमेकात्मकमेव वाच्य द्वयात्मकं वाचकमप्यवश्यम्" इत्यादिवादिनां पदमात्रमेव वाक्याथे द्योतकं वाक्यमेव च वाचकमिति निपाते क इव विशेषोऽन्यत्र संज्ञाकरणात् । न च वाक्यार्थस्यैव प्रवृत्त्यङ्गत्वे वाक्यस्यैव च बोधकत्वे पदशक्तिग्रहानुपयोगः, अन्वयव्यतिरेकाभ्यां वाक्यशक्तिग्रह एव तदुपयोगात् , पदसमुदायात्मकस्य वाक्यस्य बोधकताविधया तु पदानां तत्त्वमयत्नसिद्धमेव, स्वातन्त्र्येण तु नेति सङ्गिरामहे । यत्तु पदानि स्वार्थप्रतिपादनमात्रेण निवृत्तव्यापाराणि न वाक्यार्थबोधक्षमाणि, आकासासनिधियोग्यतावच्छिन्नानां पदार्थानामन्वयव्यतिरेकाभ्यां वाक्यार्थावेदकत्वप्रतिपः, तथाहि श्वेतरूपं पश्यतो हेषाशब्द खुरशब्दं च शृण्वतः श्वेतोऽश्वो धावतीति बुद्धिर्भवति, इयं च नाध्यक्षानुमित्यादिरूपेति शान्येव, करणं च तत्र तत्तत्पदार्थस्मरणमेव, तदुक्तं " पश्यतः श्वेतमारूपं हेषाशब्दं च शृण्वतः ॥ खुरविक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ॥१॥" इति, सिद्धं पदार्थानां शब्दप्रमाणान्तर्गतत्वम् , तदुक्तं "प्रत्यक्षादिपरिच्छिन्नपदार्थप्रत्ययोद्भवः ॥ वाक्यार्थप्रत्ययः सोऽपि, शब्दान्नैव गिभिद्यते ॥१॥" इति । अपि च कविकाव्यमूलज्ञानं न मानसं, मनसो बहिरस्वातन्यात् , नाप्यनुमितिः, व्याप्त्याद्यप्रतिसन्धानं विना जायमानत्वात् । किन्तु शाब्दबुद्धिः, तत्र कारणं च न पदज्ञानम् , असत्वात् , किन्तु चिन्तोद्बुद्धसंस्कारजन्य तत्तत्रस्मरणमिति, सिद्धं (छः) पदार्थः प्रमाणतया, यत्र चापचारान्मानसाच्छृण्वन्नपि पदानि पदार्थानावधारयति, तत्र न भवति वाक्यार्थप्रत्यय इति व्यतिरेकवलादपि पदार्था एव वाक्यार्थावेदका इति नियूंढमिति भाईकदेशिमतम् , तदसत् , For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy