________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsun Gyanmandir
| भवतीत्यत्रापि तदवगमापत्तेः, नोपसर्गार्थः, तथा सत्यप्रकृत्यर्थतया तत्राख्यातानिन्वयप्रसङ्गात् , प्रत्ययानां प्रकृत्यान्वि
तस्वार्थबोधकत्वव्युत्पत्तेः, अनुगच्छतीत्यादावनुभवादिप्रतीत्यापत्तेश्च, नापि विशिष्टाऽर्थो, गौरवादिति, धातोरेव विद्यमान| त्वादिवाचकस्यास्त्वनुभवनादौ लक्षणोपसर्गस्य च तत्र तात्पर्यग्राहकत्वं, तदेव हि द्योतकत्वमुच्यते, तच्चादिष्वपि तुल्यम् , चैत्र-| मिव पश्यतीत्यादौ (चैत्र) सादृश्यविशिष्टं चैत्रपदलक्ष्यम् , इवशब्दस्तात्पर्यग्राहक इत्यस्य सुवचत्वात् , किश्चोपास्येते हरिहरावित्यत्रोपासनाया उपसर्गार्थत्वे आमधातोरुपासनारूपफलवाचकत्वाभावात् स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूपं सकमकत्वं न स्यादिति ततः कर्मलकारानापत्तिः, विशिष्टार्थत्वे तु गौरवमिति धात्वर्थत्वपर्यवसाने तत्तात्पर्यग्राहकत्वेन यथोपसर्गस्य द्योतकत्वं सिद्ध तथा साक्षात्क्रियतेऽलकियते उरीक्रियते शिव इत्यादावपि धातोस्तत्तदर्थे कर्मणि लकारसिद्ध्यर्थं तत्तदर्थवाचकत्वं वाच्यमिति तत्तात्पर्यग्राहकतया निपातानां सिद्धं प्रादितुल्यतया द्योतकत्वम् । अथ साक्षात्कारादिनिपातार्थोऽस्तु, "साक्षात्प्रत्यक्षतुल्ययोः" इति कोशस्वरसात् , तदनुकूलो व्यापार एव धात्वर्थोऽस्तु, सकर्मकत्वमपि स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवाचित्वमिति नैकं साधकमस्तीति चेत् , न । नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयासम्भवान्निपातार्थधात्वर्थयोरन्वयस्यैवायोगात् , अन्यथा तण्डुलः पचतीत्यत्रापि कर्मतया तण्डुलानां धात्वर्थेऽन्वयापत्तेरिति बोध्यम् । किञ्च प्रादीनां वाचकत्वे भूयान् प्रकर्षः कीदृशो निश्चय इति वद् भूयान् प्र कीदृशो निरिति स्यादिति यथापाद्यते तथा निपाताना वाचकत्वेऽपि शोभनः समुच्चयो द्रष्टव्य इति वत् शोभनश्च द्रष्टव्य इति स्यादित्युभयेषां द्योतकत्वे युक्तिस्तुल्या, किश्च “निपातानां वाचकत्वे काव्यादावन्वयो न स्यात् । “शरैरुपैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥१॥” इत्यत्र हि उससदृशैः शरै रससदृशानुदीच्या
For Private And Personal Use Only