SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -RACC त्याह-'अर्थशब्देनेति' (११) यदपि प्रागजनकस्यार्थस्य स्मार्त्तशब्दानुयोजनानन्तरं साभिलापबुद्धावप्यजनकत्वमेवेत्यादि दूषणान्तरं शब्दाद्वैतवादिनं प्रति धर्मकीर्तिना दत्तं तदपि तं प्रत्यावर्त्तत एवेत्याह-यथा चैत्यादिना (१७५-१-१२)। अध्यवसायः सम्भवति, (१७५-२-३) निश्चयकार्य सिद्ध्यति, स्वालम्बनेत्यादि (३) अध्यक्षमूलकाध्यक्षे योजनीयम् । स्वविषयप्रतिनियमः सिद्धयेत् , (३) न तु विकल्पवद्भिन्नविषयत्वं स्यादित्यर्थः । अपि च विशेषसामान्ययोर्दर्शन स्मृतिविषयत्वनियमे स्मृत्यनुभवयोः समानविषयत्वनियमभङ्गप्रसङ्गः स्यादित्याह 'किश्वेत्यादिना' (४)॥ विशेषसामान्ययोरिति ' (५) तथा च घटत्वेन सह गृहीताभेदघटविषयकज्ञानत्वेन घटत्वप्रकारकघटविशेष्यकस्मृतौ हेतुत्वान्न दोष इति भावः । त्रिविप्रकृष्टेतरयोरिति (७) स्वभावदेशकालान्यतरविप्रकृष्टतदविप्रकृष्टयोरित्यर्थः। अस्वाभाविकत्व (८) इति, शशविषाणवत्तुच्छत्व इत्यर्थः । 'कथमिति' (८) अपरसम्बन्धिस्मारकैकसम्बन्धिज्ञानासिद्धरित्यर्थः, 'विकल्प्येनेति' (९) विकल्पोत्पत्तौ तदुपहितस्याप्युत्पत्तिरिति मते सिद्धो विकल्प्येन सामान्यादिना शब्दस्य सम्बन्ध इति भावः । अभिधानजात्यादियोजनापेक्षया (१२) अभिधानजात्याद्युपस्थितिकल्पनामपेक्ष्य, कथञ्चिद् व्यवसायात्मकत्वाभावेपायधारणात्मना घटत्वादिप्रकारकपरिणामाभावे, 'दानेति' (१३) निश्चयत्वेन स्मृत्यहेतुत्वे दानाद्यनुभवे वस्तुतस्तदात्मकस्वर्गप्रापणशक्तिक्षणक्षयानुभवात्तत्स्मृतिः स्यात् , सा च न जायते ततो निर्विकल्पकघटादिदर्शनस्वीकारे तज्जातीयस्मृतिर्न स्यादिति भाष्याक्षरार्थः। 'उत्पत्तिविरोधादिति' (१४) अव्यवसायस्य व्यवसायोपादानत्वायोगादित्यर्थः, कारणबाधामुक्त्वा स्वरूपबाधामाह-निर्विकल्प(ल्पात्मक)कत्वादिति' (१४) मानसप्रत्यक्षेणापि हि निर्विकल्पेकेनैव भाव्यम् , अन्यत्र प्रत्यक्षयोग्य 554 For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy