SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री | सामान्येऽपि स्वलक्षणशब्दप्रवृत्त्यविरोधमुपपादयति-'स्वेनेत्यादि ' (६) सामान्यविशेषात्मन (११) इति केवलस्य विशे-* परिच्छेदः विवरणम् ॥ | पस्य गवादित्वेनानुपलक्षणात्तत्र प्रवृत्त्ययोगादिति भावः । तदुक्तं वाक्यपदीये “गौः स्वरूपेण न गौ प्यगौर्गोत्वाभिसम्ब- प्रथमः॥ न्धात्तु गौरिति," गोत्वसामान्यक्रोडीकृता व्यक्तिगोंव्यवहारहेतुरित्येतदर्थः, सामान्यविशेषशबलाकारस्य गोः स्वरूपेण तथा॥ १७८॥ त्वमिति तु ज्यायः, अभेदस्तुल्यत्वम् , (१२)॥ एकस्मादित्यादिना (११) चापृथक्त्वमभिहितमिति विशेषः, तदभिन्नं (१२) सामान्याभिन्नम् , इतीत्यनन्तरं सौगतवचनमिति शेषः, कथमुपपत्तिमत् (१३) कथं प्रमाणोपपन्नम् , जात्यन्तरं (१४) पानकरसन्यायेन सङ्कलनात्मकं, न व्यवस्येत् (१७५-१-२) नार्थावग्रहरूपतया गृह्णीयात् , नाभिलापेन योजयेत् (३) ईहिताभिलापवैशिष्ट्येन नावयात् , श्रुतज्ञानेति (३) श्रुतज्ञानजनितसंस्कारमात्रोपनीतशब्दप्रकारकग्रहविषयस्य श्रुतनिश्रितमतिज्ञानविषयत्वोपपत्तेरित्यर्थः । "अर्थाभिधानप्रत्ययास्तुल्यनामधेया" इति नयाश्रयणाद् घटत्वेनैव घटतन्नाम्नोर्मतिज्ञानेऽभेदभानं नाम्नः सविकल्पकसामग्रीग्राह्यतया प्रातिस्विकरूपेण वा तद्व्यक्ती तद्व्यक्तिस्वरूपतत्ताया इव नामतदवयवेष्वपि नामतदवयवानामेव स्वरूपतः तत्र प्रकारत्वसम्भवात् , घटोऽयमित्यपायधारणोत्तरं घटनामकत्वेन घटपदवाच्यत्वेन श्रुतज्ञानोदयधौव्यमते तु यथाश्रुत एवार्थः, एतत् स्वसमयरहस्यमस्मत्कृतज्ञानबिन्द्रादितोऽवसेयम् । स्मार्त्तशब्दानुयोजनापेक्षत्वे शब्दाद्वैतवादिनं प्रति यत्सौगतेन दूषणं दत्तं, तत्तं प्रत्यावर्त्ततेति वक्तुमुपक्रमते-'प्रत्यक्ष(ज्ञान)स्येत्यादि' (४) स (४) प्रत्यक्षज्ञानगृहीतोऽर्थः, व्यवहितो भवेत् (४) स्मार्तेन शब्दानुयोजनेनान्तरितः स्यात् , तथा चस्मृतिसामग्या बलवत्वात्तसामान्यप्रत्यक्षं न स्यादेव, तदाह-'तदिन्द्रियेति' (४) कारिकाया अपरावृत्तावप्यर्थशब्दस्य प्रत्यक्षपरत्वे नानुपपत्तिरि- ॥ १७८ ॥ ॐॐॐAR For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy