________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥
परिच्छेदः प्रथमः॥
॥१७९
ताभावात्तत्र चाभिलापसंसर्गयोग्यतायाः शब्दवाच्यतायाः प्रतिभासाभावात्कथं निश्चयत्वं नाम जात्यादियोजनात्मकस्यैव तत्वादिति भावः । सहकारिशक्तिविशेषेणैव प्रतिनियमो भविष्यतीत्याशङ्कते-अव्यवसायात्मनोऽपीत्यादि, (१७६-१-१) एवं सति सङ्ग्राहकत्वलाघवात् सप्रकारकप्रत्यक्षत्वमेवादृष्टविशेषजन्यतावच्छेदकमस्तु अनन्तधर्मात्मकस्य वस्तुनो दर्शनेऽपि तदनन्तरापाये क्वचित्कश्चिदेव प्रकार इति नियमार्थं तत्तत्प्रकारकप्रत्यक्षत्वं तत्तददृष्टजन्यतावच्छेदकमित्येव वा कल्प्यताम् , इत्थं हि सप्रकारकमानसत्वस्यैवादृष्टविशेषजन्यतावच्छेदकत्वपक्षे घटादिचाक्षुषाद् घटादिव्यवहारेऽन्तरा नियमतो घटत्वादिप्रकारकमानसकल्पनाप्रयुक्तं यद् गौरवं तत्परिहतं भवति । न च यत्र स्थाने त्वया सविकल्पकं चाक्षुषादि कल्पनीयम्, तत्र मया मानसमेवेति क्व गौरवम् , प्रत्युत सविकल्पके चाक्षुषत्वाद्यकल्पनाल्लाघवमेवेति वाच्यम् , तथापि घटत्वादिना घटं पश्यामीत्यादौ चाक्षुषत्वादिना मानसावगाहित्वांशे भ्रमकल्पनायां गौरवात् सविकल्पके चाक्षुषत्वाद्यभावकल्पनापेक्षया चाक्षुषत्वादिकल्पनाया एव युक्तत्वादित्यभिप्रायवान् शङ्कितारमाक्षिपति-'किमेवमिति ' (१७६-१-२) ॥ तेनेति (२) तेन स्वयं व्यवसायात्मलक्षणेनाक्षज्ञानेन, नीलादेर्व्यवसाये (२) निश्चये, 'तत्क्षणक्षयेति' (२) तत्र यःक्षणक्षयस्वर्गप्रापणशक्त्यादिर्धर्मस्तस्य । निर्विकल्पकादपि दृष्टसजातीयस्मृत्युत्पत्तौ प्रकारान्तरमाशङ्कते-ननु निर्विकल्पकादपीत्यादि, (७)। तदभा| वे (८) अभ्यासाद्यभावे, तदनु(पप)त्पत्तेः (८) सजातीयस्मृत्यनुत्पत्तेः, प्रतिवा(द्या)ग्रुपन्यस्तेत्यादि, आद्येऽनभ्यासो| ऽस्मृतौ हेतुः, द्वितीयेऽर्थित्वाभावादिरिति बोध्यम् , सोऽप्यप्रज्ञाकर एवेति, (१०) उक्तवादिनः प्रज्ञाकरस्योपहासोयम् , सर्वथैकस्वभावस्य (१०) क्षणिकदर्शनैकस्वभावस्य, इतरेषां च (१०) प्रकरणादीनाम् , सकृदयोगात् (११) एकदाऽसम्भ
X॥ १७९॥
456
For Private And Personal Use Only