________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षास्मरणात् (११) पूर्वप्रतिपन्ननामास्मरणात्, न च नामविनिर्मुक्तमेव स्मरणं भविष्यतीति शङ्कनीयम्, तस्याप्रसिद्धेरित्यर्थः, 'नैवेति' (१७३-२-११) इदमस्य नामेति न प्रतिपद्यत इत्यर्थः । तदप्रतिपत्तौ तेन नाम्ना न तद्वाच्यं योजयति इदमेतत्पदवाच्यमिति, ततो नाध्यवस्यति (१२) तदेतदिति शब्देन नाभिलापं शक्नोतीत्यर्थः, तदादिबुद्धिस्थत्वादिनाऽनुगतस्य तद्घटत्वादेखि तद्घटादिनाम्नोऽपि शक्यतावच्छेदकत्वात् एवं च न क्वचिद्विकल्पः शाब्दज्ञानं वाच्यतासम्बन्धेन नामविषयमध्यक्ष पृष्टभाविज्ञानं वा शब्दो वा तज्जन्यजनकान्यतमः सम्भवेदित्यविकल्पाभिधानस्य जगत आपत्तिः । ननु नामग्रहणं तावत् पटुकरणस्य श्रोत्रेंद्रियादेव सम्पद्यते, ततोऽर्थज्ञानं च व्युत्पन्नस्य वक्त्रभिप्रायावच्छेदकत्वेनानुमितिरूपमेवेति नोक्तापत्तिरित्या - शङ्कते - 'ननु चेति' नामसंश्रयस्येत्यत्र (१३) नाम संश्रयः कारणमस्येति बहुव्रीहिः, दूषयति-तत्रापीत्यादिना (१४) ॥ तत्रापि विकल्प श्रोत्रबुद्ध्योरपि, अध्यवसायासम्भवात् (१४) तत्वेन निश्चयासम्भवादित्यर्थः । तदेतन्नाम्नोः सह स्मृतिपक्षे योजनासम्भवमाशङ्कते - ननु चेत्यादिना (१७४ - १ - १) दूपयति- 'तस्यापीति' ॥ नन्वश्वविकल्पकाले गोविकल्प इदन्त्वा - वच्छिन्ने तादात्म्येनाश्वज्ञानस्य तादात्म्येन गोज्ञानप्रतिबन्धकत्वादेव माभूत्, दृश्यमानदृष्टनाम्नोः स्मृतिस्तु समूहालम्बनरूपा बाधाभावाद्भवन्ती केन वार्यतामित्यस्वरसादाह-'नाममात्रेऽपीत्यादि' (६) नकारादीनां नकारेकारलकारानुस्वाराणामानुपूर्वी ग्रहोपायश्च निर्विकल्पकक्षणिकज्ञानपक्षे न शोभते, तत्पृष्ठभाविस विकल्पकज्ञानं च नामयोजनापेक्षमिति नामग्रहे तदपेक्षायामन्योन्याश्रयादिदोषा दुर्निवारा इति द्रष्टव्यम् । सविकल्पकनिश्चयमात्रस्य नामयोजनापेक्षत्वे दोषान्तरमाह किञ्चेत्यादिना, (८) । तदयमशब्दमिति, ( १७४-२-३ ) अशब्दं शब्दयोजनारहितं व्यवस्यन्निश्चिन्वन् व्यवस्येन्निश्विनुयात्,
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir