________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यदसतः (१७२-२-७) अप्रसिद्धस्य, समुदाहृतं (८) भावे क्तप्रत्ययात् समुदाहरणं निदर्शनमिति यावत्, तदप्यसद् अयुक्तम्, सिद्धेन साध्यव्यवस्थापनस्यैवोदाहरणप्रयोजनत्वादिति भावः । तदाह वृत्तिकृत् 'सिद्धेत्यादि' (८) अनिर्देश्यशब्देनापि कल्पितं सामान्यरूपं स्वलक्षणं निर्दिश्यते, न तु तान्विकम्, अर्थस्य शब्दाविषयत्वात्, सामान्य एव तत्संकेतप्रवृत्तेरित्यादि शङ्कते - अथेत्यादि, ( ९ ) एवमर्थस्यावाच्यत्वेऽज्ञेयत्वमपि स्यादित्याह 'तहीति' (११) ॥ यदि पुनरिति (१४) स्वलक्षणरूपविषयसामर्थ्यादुत्पन्नत्वान्निर्विकल्पकदर्शने प्रतिभासमाने स्वलक्षणरूपोऽर्थः प्रतिभासत इति युक्तं मतमित्यर्थः । नैवम्, ज्ञानजनकत्वेन ज्ञानभास्यत्वनियमे मानाभावादित्याह तदप्यसम्यगित्यादिना (१४) ॥ करणशक्तेरपि (१४) इन्द्रियनिष्ठज्ञानजननशक्तेरपि ज्ञाने तज्जन्यत्वं न तद्भासकत्वनियतं किन्तु तदाकारानुकारित्वमित्याशङ्कते ' विषयाकारेत्यादि ' ( १७३ - १ - १ ) तत्रापि तज्जन्यत्वमेव नियामकमित्यतिप्रसङ्ग एवेत्याह भाष्ये 'तहींति ' (२) तञ्जन्यताविशेषस्तदाकारानुकरणनियामकोऽस्त्वित्यत्र शङ्कते ' तद्दर्शनस्येति' ( २ ) एवं सति तदुपादेयतारूप एव विशेष आश्रयतां स्वविषयविषयकत्वरूप संवादार्थसमनन्तरप्रत्ययजन्यताया एवाभ्यर्हितत्वात् तथा चार्थविषयतोच्छेद इत्यभिप्रायवानाह 'स्वोपादानेति' (३) विषयोपादानोभयप्रत्ययत्वेऽप्याकारानुकरणस्य ज्ञाने नियमत उपादानविषयत्वापत्तिरित्याह-'विषयस्येत्यादि (३) । वर्णादेः (५) रूपादेः, तद्वदुपादानवत्, प्रत्यक्षस्य (७) नीलादिदर्शनस्य, अध्यवसा यहेतुत्वात् (७) नामजातियोजनात्मकप्रत्यक्षहेतुत्वात्, यद्यप्येवं नीलाध्यवसायहेतुत्वेन दर्शनस्य नीलविषयत्वं तश्वेन च नीलाध्यवसायहेतुत्वमित्यन्योन्याश्रयः स्फुट एवोपढौकते, तथाप्यभिलापशून्यत्वेन नाध्यवसाय हेतुता रूपादिवदिति स्फुटतरं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
%%%%%%०