SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir SENA अष्टसहस्री ला प्रत्यक्षेभिलापसंस्कारबिच्छेदे कुतस्तद्विकल्प्याभिलापसंयोजनं यतः सामान्यमभिलाप्यं स्यात् । प्रत्यक्षगृहीतमेव हि स्वलक्षणमन्यव्यावृतं परिच्छेदः विवरणम् ॥ साधारणाकारतया प्रतिभासमान सामान्य विकल्पाभिलापयोजनेनाभिलाप्यमिष्यते । न च ग्राहकप्रत्यक्षस्मृतिप्रतिभासभेदाद्विषयस्व- प्रथमः॥ भावाभेदाभावः, सकृदेकार्थोपनिबद्धदर्शनप्रत्यासन्नेतरपुरुषज्ञानविषयवत् । यथा हि सकृदेकस्मिन्नर्थे पादपादावुपनिबद्धदर्शनयोः प्रत्या॥१७६ ॥ सन्नविप्रकृष्टपुरुषयोर्ज्ञानाभ्यां विषयीकृते स्पष्टास्पष्टप्रतिभासभेदान्न स्वभावभेदः पादपस्य, तस्यैकत्वाव्यतिक्रमात् , तथैव ग्राहकयोः प्रत्यक्षस्मृतिप्रतिभासयो देपि स्पष्टमन्दतया न तद्विषयस्य भेदः, स्वलक्षणस्यैकस्वभावत्वाभ्युपगमात् । तथा च मन्दप्रतिभासिनि स्वलक्षणे घटादौ शब्दविकल्पविषये तत्संकेतव्यवहारनियमकल्पनायामपि कथञ्चिदभिधेयत्वं वस्तुनः सिद्धम् । इत्यलं प्रसङ्गेन, रूपादिवलक्षणे शब्दाभावादवाच्यमेव तदिति बुवाणस्य प्रत्यक्षेर्थस्याभावात्तस्याज्ञेयत्वप्रसक्तेः समर्थनात्, रूपाद्यर्थस्य कथञ्चिज्ज्ञेयत्वेभिलाप्यत्वस्यापि साधनान् प्रकृतार्थपरिसमाप्तौ प्रसङ्गस्य निष्प्रयोजनत्वात् पर्याप्तं प्रसङ्गेन । तस्मादवाच्यतैकान्ते यदवाच्यमित्यभिधानं तदसमञ्जसं, स्वलक्षणमनिर्देश्यमित्यादिवत्स्ववचनविरोधात् तदप्यसद्, यदसतः समुदाहृतमिति प्रतिपादनात् । यथैव हि स्वलक्षणमनिर्देश्यमित्यवाच्यतैकान्ते वक्तुमशक्यं तथा प्रत्यक्षं कल्पनापोढमित्यपि, प्रत्यक्षेभिलापसंसर्गाभावे विकल्पानुत्पत्तिप्रसङ्गस्य निवेदितत्वात् , तत्सद्भावे सविकल्पकत्व सिद्धेः । अवाच्यतैकान्तं दूषयति-अवाच्यतैकान्त इत्यादिना (१७२-२-३) [मूले], अवाच्यशब्देनाप्यवाच्यतापत्तेः सर्वथाऽवाच्यत्वं नास्तीत्यर्थः । स्वलक्षणानिर्देश्यत्वादिप्रतिपादकवचनवत् सर्वमवाच्यं तत्त्वमित्यस्य नानुपपचिरित्याशङ्कते-स्वलक्षणमित्यादिना (६) ॥ एवमसिद्धेनासिद्धं साधयतो महातार्किकत्वापत्तिरित्याह भाष्यकृत्-तदप्यसदित्यादिना, (७)|॥ १७६ ॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy