________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ।। ॥ १६७
परिच्छेदः प्रथमः॥
4%
न्धेन स्वभावमेदस्यासम्भवान कस्यचित्सम्बन्ध्यन्तराणि स्वभावभेदनिबन्धनानि सन्ति, असतः स्वभावभेदस्य कर्तृमशक्य- वादित्यन्वयः । प्रामाणिकत्वाद्रव्यादिकृतसम्बन्धः पराकर्तुमशक्य इत्याशय्य समाधत्ते न द्रव्येत्यादिना (१६३-२-९) स्वयंप्रमाणेन सम्बन्धसिद्धिमङ्गीकृत्य परमुखेन तमभ्युपगमयति 'किंबहुनेति (१६४-१-२) तथा च साकारज्ञानवादे विषयविषयिभावसम्बन्धस्य निराकारज्ञानवादेऽपि तन्निराकरणाकारसम्बन्धस्यावश्याभ्युपगम्यत्वे सिद्धमन्यत्रापि द्रव्यादिसम्बन्धेनेति भावः । सर्वथा सम्बन्धाभावस्य चेति (६) तथा च परमाणूनां निरन्तरोत्पत्तिरेव द्रव्यादिप्रत्यासत्तिर्ज्ञानस्य चानीलाद्याकारव्यावृत्ततयोत्पत्तिरिति निरस्तम्, पारतन्त्र्यभिया सम्बन्धं निराकुर्वतोऽसम्बन्धाभावमाद्रियमाणस्याभावस्य भावपरतन्त्रतया तदनिवृत्तेर्वकल्पनादोषस्य परमाधिक्यात् , तदयं कस्यचिदिति (६) क्वचित्परतन्त्रतानुपलम्मे सर्वत्र परतन्त्रतानिषेधस्य कर्तृमशक्यत्वादभावज्ञाने प्रतियोगिज्ञानस्य हेतुत्वादिति भावः । परतन्त्रः (७) परवशः, कस्यचिदसिद्धस्यापीति (७) तथा च यथा कार्यस्य कारणपरतन्त्रत्वं, तथा सर्वस्य वस्तुनः सम्बन्धमुखेन सम्बन्ध्यन्तरपरतन्त्रत्वमविरुद्धमिति भावः । ननु कार्ये न कारणपारतन्त्र्यं, तस्य स्वरसत एवोत्पत्तिशीलत्वात् , किन्तु कार्यत्वव्यवहार इति सांवृतमेव तदित्याशङ्कायामाह'संवृत्येति' (९) तदोषानतिवृत्तेर्वस्तुनः कारणानपेक्षत्वे कार्यस्य नित्यं सत्चमसचं वेति प्रसङ्गस्य दुर्वारत्वादिति भावः। 'तत्त्वतोऽपीति' (९) एकत्र मृषा रूपस्यान्यत्र सत्यत्वनियमादित्यर्थः, वस्तुतोऽवधितया नियतत्वरूपं कारणपारतन्त्र्यं कार्य सर्वसिद्धमेवाकस्माद्भावनिरासस्येत्थमेवोपपादनात् , स्वभाववादे पूर्वोत्तरक्षणानामेव हेतुहेतुमद्भावेन कारणान्तरनिरासेऽपि तेषां मिथोऽवध्यवधिमद्भावेन नैयत्याक्षतेखुट्यदेकान्ते स्वभावशब्दार्थस्यैवानुपपत्तिरिति पुनरन्यदेतत् । सन्तानान्तरभाव
ARE
॥१६७॥
For Private And Personal Use Only