SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir स्वभावभेदा इति (१०) सन्तानान्तरभावस्य घटपटादिरूपस्य स्वभावभेदाः, क्षणिकनित्यापेक्षया नित्यानित्यादिरूपाः, स सुघट एवेति (१६४-१-१३) सुवर्ण कुण्डलीभूतं मृद् घटीभूतेत्यादिप्रत्ययादविच्छिन्नद्रव्यस्यैव का भावसिद्धेः, अन्यथा च्चिप्रत्ययार्थस्यैवाघटनादिति भावः । ननु कारणस्य प्राक्कालवृत्तितयैवापेक्षणात् कथमविच्छिन्नस्य का भाव इत्याशङ्कायां दृष्टान्तमाह-स्वभावान्तरानपेक्षणवदिति (१३),येन नयेन स्वभावान्तरानपेक्षणं तेन नयेनाविच्छिन्नस्य कारणस्य कार्यतां स्वीकुर्वतः परित्यागायोग इत्यर्थः। स को वा नय इति चेत् , इमे ब्रूमहे, नाशस्येवोत्पादस्य निर्हेतुकत्ववादी शुद्धपर्यायार्थिक एच, तदाह-उत्पित्सोरपीति (१३) हेतुं विनैव वस्तुनो विनाशशीलत्वे हेतुं विनैवोत्पादशीलत्वं न्याय्यम् , तत्र सौगतानामर्द्धजरतीयाश्रयणस्यायुक्तत्वादिति भावः। स्थितावप्येनं न्यायमतिदिशति-'एतेनेति' (१४) वस्तुन उत्पादविनाशयोः कारणानपेक्षत्वे व्यवस्थिते स्थितेरपि तत्वेन स्वाभाविकत्वं युक्तम् ,क्वाचित्कत्वस्येव कादाचित्कत्वस्य स्वभावनियतत्वादिति भावः। नन्वेवमुत्पादादित्रयस्य कारणानपेक्षत्वे घटोत्पादायथं दण्डग्रहणादौ प्रवृत्तिर्न स्यादित्याशङ्कायामाह-'तद्विशेष एवेति' (१६४-२-१) इत्थं चोत्पादस्य प्रायोगिकवैश्रसिकमेदेन द्विविधत्वाद् द्वितीये हेत्वनपेक्षायामपि प्रथमे तदपेक्षाध्रौव्यान प्रवृत्त्युच्छेद इति भावः। एतच्चोत्पादद्वैविध्यं 'उप्पाओ दुविअप्पो पओगजणिओ अवीससाच' इत्यादिग्रन्थेन भगवता सम्मतिकारेणापि भणितमिति नास्मत्सम्प्रदायप्रतिकूलेयं कल्पनेति बोध्यम् , एवं सति कालादिहेतुपञ्चकसामग्र्याः कार्योत्पत्तिमात्रनियतत्वभङ्गेनापसिद्धान्तभीस्तु गौणमुख्यभावेन बदभङ्गाद्वारणीयोक्तद्वैविध्यस्य प्रयोगविश्रसाप्राधान्येनैव व्यवस्थितेरिति दिग् । तत्र (७) तयोः पक्षयोर्मध्ये,तद्वतः स्थित्यादिमतः सकाशात् ,सामर्थ्यात् (८)उत्पद्यमानादिद्रव्यामेदसामर्थात् ,त्रैलक्षण्यादिति For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy