SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारविरोधितावच्छेदकं वैजात्यं वक्तव्यमिति ध्रुवोऽन्यापोहः, विचारस्य सत्यत्वे नियमभङ्गोऽसत्यत्वे च सत्यज्ञानजनकशक्तिविरहात् सत्यज्ञानोच्छेद इति यत्किञ्चिदेतत् । चित्राद्वैतवादेऽपि योगाचारस्य चित्रज्ञाने नीलादिमात्रविषयकज्ञानत्वावच्छिन्नभेदरूपो नीलाद्याकारभेदरूपश्चान्यापोहोऽवश्यमादरणीय इत्याह चित्रैकज्ञानवादिनः पुनरित्यादिना (१६३-१-४)।तद्वतइति (९) तद्वतो लोहितादिनिर्भासवतश्चित्रज्ञानस्य, तेभ्यो लोहितादिनिर्भासेभ्यो व्यावृत्तिरस्तीति साध्यम् । एकानेकस्वभावत्वादिति हेतुः, यथा घटस्य रूपरसादिभ्य इति दृष्टान्तः, एकमिदमनुमानम् , द्वितीयं च तद्वतो नीलाद्याकारवतश्चित्रपटादेस्तेभ्यो नीलाद्याकारेभ्य इत्यभिलापेन द्रष्टव्यम् । 'न पुनरिति' (१०) अनेकस्वभावमिति विपरिणतानुषङ्गेनान्वयः, तल्लोहितादिनिर्भासवनीलाद्याकारवञ्च । हेतुः (११) एकानेकस्वभावत्वरूपः, यदि च रूपादय एव लोकप्रतीतत्वात् सन्ति न द्रव्यमिति परेणोच्यते तदाह भाष्यकृत् , मम सामान्याभिप्रायेण द्रव्यमेवास्ति न (वस्यान) रूपादय इति, तुल्यः पक्ष इत्यर्थः । ज्ञानमधिकृत्याह वृत्तिकृत् , एतेनेति, चित्रज्ञानैकत्वे निर्भासभेदप्रकारमुपदर्शयति शक्यं हि वक्तुमित्यादिना (१२), प्रसङ्गापादनमात्रमेतदिति, विपर्ययपर्यवसानमाह तथानभ्युपगम इत्यादि (१४)। भाष्ये वाकारो (२-१) व्यवस्थार्थः । निर्भासभेदेऽप्येकत्वोपगमे बाधकमाह भाष्यकृत् अन्यथेति (४), क्रमश (५) इति । एवं हि क्रमिकनानाकार्यकरणैकस्वभावोऽनुगृहीतो भवति वस्तुन एवं नानकस्वभावशबलतैव सिद्ध्यति, अन्यथैकस्वभाववपुषि नानाकार्यकरणानुप्रवेशे एककार्यकारणवेलायाङ्गलेपादिकया नानाकायपनयनप्रसङ्गादित्यालोच्याह न चैवं शक्यमभ्युपगन्तुमित्यादिना (६) । बौद्धः शङ्कते-'ननु चेति' (७) भावानां पारतन्त्र्यानुपपत्तेः क्षणिकत्वेन परापेक्षाया अघटनात् सर्वथाऽसम्ब 4% For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy