________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shekilassagarsuri Gyanmandi
परिच्छेदः प्रथमः॥
अष्टसहस्री है| यणेऽपि तथालक्षणस्यावश्यमृग्यत्वाचेति चेत् , सत्यम् , "त्रैकालिकी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभाव" इत्यत्र परिणा- विवरणम्॥ मपदमहिना धर्मत्वनियामकसम्बन्धबोधात्तृतीयातत्पुरुषाश्रयणाच्च संसर्गावच्छिन्नप्रतियोगिताकाभावत्वमत्यन्ताभावत्वमिति ॥१६६॥
तात्पर्यात् । इत्थं चान्योन्याभावलक्षणस्य तादात्म्यावच्छिन्नप्रतियोगिताकाभावत्वस्यैव लाभान्न दोषः। तत्त्वं क्लप्साधिकरणेऽतिरिक्तपदार्थे वेति पुनरन्यदेतत् , संयोगितादात्म्यस्यैव संयोगत्वे च “ तादात्म्यत्वावच्छिन्नावच्छेदकताकप्रतियोगिताकाभा- | वत्वमन्योन्याभावत्वम् ,"" तदितराभावत्वं संसर्गाभावत्वम् "इति वदन्ति । तादात्म्यत्वस्यातिरिक्तस्य कल्पनायां गौरवा - दत्वात्यन्ताभावत्वाद्यखण्डोपाधिरिति तु नव्याः । युक्तमेतत् , तत्तत्स्वरूपे तत्तद्भेदत्वादेर्यथा प्रतीतिकल्पनाद् भावसंकरस्येवाभावसंकरस्याप्यदुष्टत्वात् , अभिलापभेदस्य च विवक्षावैचित्र्यायधीनत्वादिति दिग्॥ अन्यापोहव्यतिक्रमे भेदवादिनां दोषः स्यान्नाभेदवादिनः सौगतस्येत्याशङ्कते नन्वित्यादिना (१६२-२-११)।उत्तरयति-सौगतानामपि हीत्यादिना (१३), वणिकत्वेन व्यक्तिभेदे तेषामविवाद एव, ग्राह्यग्राहकत्वाभ्यामांशिकस्वरूपभेदकथनार्थं पुनरयमुपक्रमः, ग्राह्यग्राहकाकारविवेकान्यथानुपपत्त्या ज्ञानमात्रमपि कथश्चिद्रेदशालि स्वीकार्यमेवेति निष्कर्षः। ननु मतापरिज्ञानविजृम्भितमेतत् ज्ञानमात्रस्य माध्यमिकेनाभ्युपगमात् , तन्मते च ग्राह्याकारस्यालीकत्वादलीकभेदस्य च वास्तवान्यापोहव्यतिक्रमाविरोधित्वादित्याशङ्कते 'ननु चेत्यादिना' (१६३-१-२)। एवमपि स्वलक्षणप्रत्यक्षे संवेद्याकारमिथ्यात्वावगाहिज्ञानवैलक्षण्यध्रौव्यानान्यापोहव्यति| क्रमः सौगतस्य युक्त इत्याशयेन समाधत्ते नैवमपीत्यादिना (३)। तादृशज्ञानस्यालीकत्वे च दत्तो माध्यमिकमताय जलाञ्जलिः। विचारजन्यं शून्यज्ञानमेव प्रमाणं नान्यत् स्वलक्षणप्रत्यक्षमप्यप्रामाण्यशङ्काकलङ्कितत्वादिति चेत् , तर्हि तत्रापि मिथ्या
For Private And Personal Use Only