________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SEARCHASES*
त्वविरोधात् । तदप्रतिबन्धे प्रमाणान्तरसिद्धेः कथं प्रमाणद्वयनियमविघटन न घटेत, तदुत्पत्त्यभावे प्रत्यक्षस्यानुमानस्य चानुदयात् , 'अर्थस्यासंभवेऽभावात् प्रत्यक्षेपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ॥१॥ इति वचनात् । मानसस्य तु नास्तिताज्ञानस्य स्वकारणसामग्रीवशादुत्पन्नस्याभावपरिच्छेदकत्वे तदेवं प्रमाणान्तरं, प्रतिबन्धनियमाभावात् । इति यथोदितदोष परिजिहीर॑णा वस्तुधर्मस्यैवाभावस्य प्रतिपत्तिरभ्युपगन्तव्या, तस्याः प्रतिक्षेपापायात् । ततो न भावकान्ते समीहितसिद्धिः ॥ ११ ॥ ___ स्वसमवायिन (१६२-१-१४) इति स्वमात्मा-समवायि यस्येति विग्रहात् स्वसमवायिन आत्मसमवेतज्ञानादेः, समवाय्यन्तरे (२-१) व्योमादौ,समवायोऽन्यत्र समवाय उच्यते, अत्यन्ताभावव्यतिक्रमः स एव, तस्मिन्निति तस्मिन्नभ्युपगम्यमाने, सर्वस्य प्रवादिनः, इष्टं तत्त्वं सर्वथा तस्यैवेत्याकारेण, न व्यपदिश्येत । तस्य (५) कार्यस्य, तद्व्यावृत्तेः पूर्वोत्तरपरिणामरूपव्यावृत्तेः, विशिष्टत्वाद्विलक्षणत्वाद् , ध्वंसत्वप्रागभावत्वाभ्यामिति शेषः। तथा चोपधेयसांकर्येऽप्युपाधीनामसांकर्याग्न दोषस्तद्व्यक्तित्वावच्छिन्नभेदेऽपि तद्रव्यत्वावच्छिन्नमेदाभावाश्रयणाद्वेति बोध्यम् । उपाध्यसाङ्कर्यमेव प्रदर्शयति-'यदभावे हीत्यादि' (५) ॥ नियमग्रहणादिति (७), न चैवं सिद्ध्यभावे नियमतोऽनुमित्युत्पत्तेः सिद्धेनुमितिप्रागभावत्व प्रसङ्ग इति वाच्यम् । पूर्वपरिणामान्तर्भावेनेष्टत्वात् , अनुमितेरपि सिद्धित्वेन सिद्ध्यभावत्वेनानुमितिनिरूपितस्य कालिकव्याप्तिघटितनियमस्याभावाच । न हि घटपटयो (९) रित्यादि, नन्वेवं जीवेऽजीवमेदे कालत्रयापेक्षेऽत्यन्तामावलक्षणातिव्याप्तिः, न च सोऽत्यन्ताभाव एव, प्रतीतिवैलक्षण्यात् , नत्राऽत्यन्ताभाववोधनेऽनुयोगिवाचकपदे सप्तम्या अन्योन्या-| भावबोधने च प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तिकत्वस्य तत्रत्वाच्चात्यन्ताभावत्वादिना चोधने तथान्युत्पत्तेराश्र
RAMA
For Private And Personal Use Only