SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रूपादिस्कन्धपञ्चकवादी सौगतश्च तत्तद्विकल्पात्तत्तद्व्यवहारं प्रवर्त्तयति - तथा गतानुगतिको लोको विषयनिरपेक्षमेव विकल्पमात्रात् प्रागभावादिव्यवहारमित्यर्थः । ततो नेत्यादि (१४६ - १-२ ) प्रमाणेन न प्रतीयत इत्यर्थः । असत्ख्यात्या प्रतीयमानस्त्वयं शशविषाणवान्ध्येयसौभ्रात्र पात्रतामनुभवतीति हृदयम् । न पुनः साङ्ख्योऽन्यो वेति (३) साख्यः कापिलो, यौगादिरन्यः साङ्ख्यस्यानुपालम्भपात्रत्वे हेतुमाह-तस्येति, उपचरितकार्यद्रव्याभ्युपगममधिकृत्याह-' तिरोभावेत्यादि (३) भावस्वभावेत्यादि' (३) तथा च न, साङ्ख्यस्य सर्वथा प्रागभावापद्धवोऽसत्ख्यातिविषयतोपगमस्यैव तदर्थत्वादिति भावः । अन्यस्य योगादेरनुपालम्भपात्रत्वे तु व्यक्त्या प्रागभावस्वीकार एव हेतुर्द्रष्टव्यः, तैरपीति (७) स्याद्वादिमिरपीत्यर्थः । अपिना नैयायिकैकदेशिभिरपि तन्निराकरणं सूच्यते, तथा च दीधितिकृन्मतानुसारिणः, ननु प्रागभावे किं मानं? न तावत् प्रत्यक्षम् असिद्धेः । घटो भविष्यतीत्यादिप्रत्ययस्य वर्त्तमानकालानन्तरकालोत्पत्तिकत्वविषयत्वात् नाप्यनुमानम्, अप्रयोजकत्वात् न च घटादिकार्यधारावारणाय प्रागभावसिद्धिः, कार्यद्रव्यत्वावच्छिन्ने समवायेन द्रव्यत्वावच्छिन्नाभावस्य हेतुत्वेनैव तद्वारणात् न चाव्याप्यवृत्तेः कार्यस्य द्वितीयक्षणे उत्पन्यापत्तिः, समानावच्छेदकतया तत्र भावस्य हेतुत्वात्, न च संयोगादेः प्रदेशनियमः स्वभावाधीनात्तत्प्रागभावप्रादेशिकत्वादिति प्रागभावसिद्धिः, तत्तद्देशादिहेतुत्वेनैव तन्नियमात्, न च तथापि निर्विकल्पकस्य चतुर्थक्षणे उत्पत्तिवारणाय तत्रोत्तरज्ञानाभावस्य कारणत्वं वक्तव्यम्, तथा च लाघवात्प्रागभावस्य तत्त्वमुचितमिति वाच्यम्, तन्निर्विकल्पककालोत्पचिकध्वंसव्यक्त्यादेरेव तत्र प्रतिबन्धकत्वादखण्डतदभावस्य च तद्धेतुत्वाद्वस्तुतो निर्विकल्पकत्वस्य कार्यतानवच्छेदकत्वात्तादृशप्रत्यक्षसामग्रीसच्चे तादृशप्रत्यक्षोत्पाद नियमान्निर्विकल्पकापचिरेव For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy