SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www bath.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम्॥ परिच्छेदा प्रथमः॥ ॥१५३॥ तद्वत् स्वतत्रत्वे प्रागभावस्य भावत्वं स्यादिति भावः । न चानुत्पन्न इत्यादि (४)॥ अत्रेदं चिन्त्यम् , अनुत्पन्नः प्रध्वस्तो वा प्रागभावस्य ध्वंसस्य च नाश्रयोऽभ्युपगम्यते, किन्तु प्रतियोग्यवेत्यनभ्युपगतोपालम्भोऽयम् , प्रतियोगित्वं च तयोः | स्वरूपसम्बन्धविशेषरूपं ज्ञानविषयतावदेवोपपद्यत इति । 'यदि पुनरेक एवेति' (५) देशकालयोर्विशेष्यहेतुत्वेनानतिप्रसङ्गात् तत्कार्यनियमाय तत्तत्प्रागभावो न कल्पनीयः, किन्तु व्यवहारार्थम् , स चैकत्वेऽपि विशेषणभेदाद्भिन्नत्वोपचारेण निर्वहतीत्यर्थः । कार्यस्यैवेति (७) पूर्वकालावच्छिन्नप्रतियोगितया घटविशिष्टोऽभावो घटप्रागभावः १ । उत्तरकालावच्छिन्नप्रतियोगितया तादृशः स घटध्वंसः२ । तादात्म्यावच्छिन्नप्रतियोगितया तादृशः स इतरेतराभावः३ । तादात्म्येतरसंसर्गावच्छिन्नप्रतियोगितया तादृशः सोऽत्यन्ताभाव इत्यर्थः ४ । प्रत्ययभेदस्यापि तथोपपत्तेरिति (८) न चैवं स्नेहप्रतियोगिकाभावस्यैव गन्धप्रतियोगिकत्वात् पृथिव्यां न स्नेह इति वन्न गन्ध इति व्यवहारापत्तिरिति वाच्यम् । विशिष्टाधारताभेदस्वीकारेणोपपत्तेः, तत्र स्नेहप्रतियोगिकत्वविशिष्टाभावत्वावच्छिन्नाधारतासत्त्वेऽपि गन्धप्रतियोगिकत्वविशिष्टाभावत्वावच्छिन्नाधारताभावात् , समवायैकत्ववादेऽपि रूपवनीरूपत्वादिविविक्तव्यवहारस्येत्थमेवोपपत्तेः, सत्तैकत्वप्रतिबन्धाऽभावकत्वं सिद्ध्यतीति दृष्टान्तद्वारेणाह-सत्तैकत्वेऽपीत्यादिना(८)॥नतु सत्तेति (१३) विशेषणमेदेन विशिष्टसत्तामेदात्तदाधारताभेदावा प्रतिनियतभेद व्यवहारोपपत्तेरित्यर्थः । इयमेव रीतिरभावेऽप्यनुसर्तव्येत्याह तर्हि तत एवेति (१३) अस्त्वेवमेक एवाभावस्तत्राहन चैकोप्यभाव इत्यादि(१३) ॥ द्रव्यादीत्यादि (१४६-१-१) यथा वैशेषिको लोको द्रव्यादिषट्पदार्थविकल्पमात्राव्यादिव्यवहारं प्रवर्त्तयति, यथा वा प्रमाणादिषोडशपदार्थवादी नैयायिकः, प्रकृतिमहदादिपञ्चविंशतिपदार्थवादी साङ्ख्यः , |॥१५॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy