SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir परिच्छेदः अष्टसहस्री विवरणम् ॥ ॥१५४॥ प्रथमः॥ दुर्घटा, सामग्र्याः कार्यतावच्छेदकावच्छिन्नव्याप्यताया एव स्वीकारात् । अथ तथापि शततन्तुषु भाविनः पटस्य द्विचतुरादितन्तुषु संयुक्तेषत्पतिः स्यात् , सामग्रीसत्त्वात् , न च प्रागभावस्यापि सत्त्वाचवापि तदनुत्पचिर्दुर्घटा, तत्प्रागभावव्याप्ययावत्संयोगत्वेन हेतुत्वादिति चेत्, न, कतिपयसंयोगेष्वतीतेष्वनागतेषु वा तत्पटानुत्पत्तिप्रसङ्गाचत्पटव्याप्ययाव संयोगत्वेनैव हेतुत्वसम्भवाच्च, वस्तुतः सामय्याः कार्यतावच्छेदकावच्छिन्नोत्पत्तिव्याप्यताया एवोपगमात्तदा द्विचतुरादि| तन्तुकपटस्यैवोत्पतेः शततन्तुकपटस्यापादकाभावो व्यक्तिस्थानीयापतिविरहात् , तर्हि तत्पटत्वावच्छिन्ने किं नियामकम्, सामान्यत: क्लप्तकारणताकतवचन्तुतचत्संयोगादितादृशनियामकत्वमेव हेतुत्वमिति चेत, तर्हि प्रागभावस्वीकारेऽपि तत्त्वं दुर्वारम् , तद्रूपेण तदान्यथासिद्धत्वमिति चेत् , तदेति विफलम् , तर्हि जन्यसत्त्वेन सत्वेन हेतुहेतुमद्भावेनैव निर्वाहोऽस्त्विति चेत्, न । तन्तुत्वादिना कारणत्वबुद्धिव्यपदेशयोरप्रामाण्यापत्तेश्च, किमाकस्मिकत्वं तदवच्छिन्नसामग्र्यनिश्चये एतावत्सत्त्वेऽवश्य पटोत्पत्तिरित्यनिश्चयः, इत्थं च प्रवृत्तिरपि दुर्घटा । तादृशनिश्चय एव कृतिसाध्यताधीसम्भवात् , तत्पटत्वावच्छिन्नस्याकस्मिकत्वं त्विष्टम् , तद्धर्मावच्छिन्नसामग्रीसत्वेऽपि तथानिश्चयायोगात् तद्धर्मावच्छिन्ने प्रवृत्त्यभावाच, किश्च विशेषान्वयव्यतिरेकाभ्यां सामान्यव्यभिचारानिर्णयानुगतागुरुविशेषान्तरानुपस्थितिलाघवादिप्रतिसन्धानवशात् सामान्यत एव हेतुहेतुमद्भावग्रहात् ग्राहकाभावादेव न विशेषकार्यकारणभावसिद्धिः । व्यक्तिस्थानीयापत्तिसत्वेऽपि च तदा शततन्तुकानुत्पत्तिर्विशिष्टचरमसंयोगहेतुत्वादेवोपपद्यते । अथास्तु कालनियमश्वरमसंयोगहेतुत्वात्तथापि देशनियमाय प्रागभावसिद्धिः, शतस्य तन्तूनां तत्तत्संयोगानां च विशिष्य तद्धेतुत्वे गौरवाद् व्यभिचाराच्च तत्प्रागभावस्यैव लाघवात्तत्पटहेतुत्वात् , किञ्च यत्र शत ॥१५४॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy