SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ॥ ॥ १४८ ॥ www.kobatirth.org विरचितदर्शनप्रदर्शनमात्रम् । एतेनावस्था प्रत्युक्ता । तद्विशेषैकान्ते तद्वतोनुपयोगः, तावतेतिकर्तव्यतास्थानात् । अभेदैकान्ते पूर्ववत्प्रसङ्गः । परिणामेप्येष पर्यनुयोगः । परिणामिनो बहुधानकस्य परिणामा घटादयोत्यन्तभिन्ना वा स्युरभिन्ना वा ?, कथचिद्भेदाश्रयणे स्याद्वादानुसरणप्रसङ्गात् । तत्र परिणामानां तदभिन्नानां क्रमशों वृत्तिर्मा भूत्, परिणामिनोऽक्रमत्वात् । ततो भिन्नानां व्यपदेशोपि मा भूत्, प्रधानस्यैते परिणामा इति सम्बन्धासिद्धेरनुपकारकत्वात् । न हि नित्यं प्रधानं परिणामानामुपकारकम् तस्य क्रमयौगपद्याभ्यामुपकारकत्वायोगात् । नापि परिणामेभ्यस्तस्योपकारः, तस्य तत्कार्यत्वेनानित्यत्वापत्तेः । तैस्तस्योपकारेपि सर्वं समानमनवस्था 'च । यावन्तो हि परिणामास्तावन्तस्तस्योपकारास्तत्कृतास्ततो यदि भिन्नास्तदा तस्येति व्यपदेशोपि मा भूत्, सम्बन्धासिद्धेरनुपकारकत्वात् । तद्वतस्तैरुपकारैरुपकारान्तरेपि स एव पर्यनुयोग इत्यनवस्था । ततस्ते यद्यभिन्नास्तदा तावद्वा प्रधानं भिद्येत, ते वा प्रधानैकरूपतां प्रतिपद्येरन् । इति प्रधानस्योपकाराणां चावस्थानासंभवादनवस्था । तस्या भोग्याभावे पुंसो भोक्तृत्वाभावादभावः स्यात्, तस्य तलक्षणत्वात् । ततः प्रकृतिपुरुषतत्त्वयोरवस्थानाभावादनवस्था | इति न कपिलमतानुसरणेनापि प्रधानात्मनामशेषतो घटादीनामपि शब्दवदभिव्यङ्ग्यत्वं युक्तं कल्पयितुम्, सर्वदा प्रागभावापह्नवे तदभिव्यक्तेरप्यनादित्वप्रसङ्गात्कार्यद्रव्यवत्। ननु कार्यद्रव्यमसिद्धं कापिलानाम्, कथमनादि ग्रन्थकारेणापाद्यते इति चेत्, प्रमाणबलात्कार्यत्वं द्रव्यस्यापाद्य तथाभिधानाददोषः । कथं कार्यत्वमापाद्यते प्रागभावानभ्युपगमवादिनं प्रतीति चेत् कार्यं घटादिकम्, अपेक्षितपरव्यापारत्वात्, यत्तु न कार्यं तन्न तथा दृष्टम्, यथा गगनम्, तथा च घटादिकम्, तस्मात्कार्यमित्यनुमानात् । नात्रासिद्धं साधनम्, कादाचित्कत्वात्, तस्यानपेक्षित परव्यापारत्वे कादाचित्कत्वविरोधादाकाशवत् । तदाविर्भावस्य कादाचित्कत्वादपेक्षितपरव्यापारत्वं, न तु घटादेरिति चेत्, कोयमाविर्भावो नाम ? प्रागनुपलब्धस्य व्यञ्जक For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ॥ ॥ १४८ ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy