SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir व्यापारादुपलम्भ इति चेत्, स तर्हि प्रागसन् कारणैः क्रियते, न पुनर्घटादिरिति स्वरुचिवचनमात्रम् । अथ तस्यापि प्राकतिरोहितस्य सत एव कारणैराविर्भावान्तरमिष्यते, तर्हि तस्याप्यन्यत्तस्याप्यन्यदाविर्भावनमित्यनवस्थानान्न कदाचिद् घटादेराविर्भावः स्यात् । अथाविर्भावस्योपलम्भरूपस्य तद्पाविर्भावान्तरानपेक्षत्वात् प्रकाशस्य प्रकाशान्तरानपेक्षत्ववन्नानवस्थेति चेत्, तर्हि तस्य कारणादात्मलाभोभ्युपगन्तव्यः, ततः कार्यमाविर्भाव इति । तद्बद्भुटादिकमपि, अपेक्षितपरव्यापारत्वाविशेषादात्मलाभे । न लब्धात्मलाभस्योपलम्भः शक्यः कर्तुम् , सर्वथातिप्रसङ्गात् । तदेवं प्रधानपरिणामतयापीष्टं घटादिकं कार्यद्रव्यमापाद्यते । तस्य च प्रागभावापश्वेऽनादित्वप्रसङ्गात्कारणव्यापारानर्थक्यं स्यादिति सूक्तं दूषणम् । प्राक्तिरोभावस्योपगमे वा स एव प्रागभावः सिद्धः, तस्य तिरोभाव इति नामान्तरकरणे दोषाभावादुत्पादस्याविर्भाव इति नामान्तरकरणवत् । ततो न मीमांसकस्य सांख्यमतानुसरणं युक्तम् , सर्वथा शब्दस्य प्रागभावानभ्युपगमेऽनादित्वप्रसङ्गात् पुरुषव्यापारानर्थक्यस्य समर्थनात् । तथा विनाशानभ्युपगमे तस्य किंकृतमश्रवणम् ? स्वावरणकृतमिति चेत्, नैतत्सारम् , तदात्मानमखण्डयतः कस्यचिदावरणत्वायोगात्। तिरोधायकस्य कस्यचिद्वायुविशेषस्य शब्दात्मानं खण्डयत एवावरणत्वे स्वभावभेदप्रसङ्गः, आवृत्तानावृतस्वभावयोरभेदानुपपत्तः। तयोरभेदे वा शब्दस्य श्रुतिरश्रुतिर्वेत्येकान्तः प्रसज्येत, पुरुषव्यापारात्पूर्वमश्रुतिस्तदनन्तरं श्रुतिरितिविभागानुपपत्तेः । स्यान्मतम् , यथा घटादेरात्मानखण्डयत्तमस्तस्यावरणं तथा शब्दस्यापीति, तदसत् , तस्यापि तेनात्मखण्डनोपगमात् , दृश्यस्वभावस्य खण्डनात्तमसस्तदावरणत्वसिद्धेः, सर्वस्य परिणामित्वसाधनात् । तमसापि घटादेरखण्डने पूर्ववदुपलब्धिः किन्न भवितुमर्हति, तस्य तेनोपलभ्यतयाप्यखण्डनात्। ननु च पुरुषव्यापारात्प्राक् पश्चाच्च शब्दस्याखण्डितस्वभावत्वेपि नैकान्ततः श्रुतिः, सहकारिकारणापेक्षत्वात् , स्वविज्ञानोत्पादने तदश्रुतेरपि तद्वैकल्ये संभवादिति चेत्, तार्ह किमयं शब्दः स्वविषयसंवि For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy