SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir HASHASRANAMAHAL तकरणानां प्रागभावाभावात्। आवरणविगमविशेषाधानयोर्हि शब्दपुरुषोत्राणां स्वरूपत्वे तेषां याचिकैरपि नित्यत्वोपगमात्कथं प्रागभावः संभवेत् ?, संभवे वा प्रयत्नकार्यत्वप्रसङ्गः अभिव्यक्तिवत् । पुरुषप्रयत्नेन अभिव्यक्तिः प्रागसती क्रियते, न पुनस्तत्स्वरूपः शब्दः पुरुषः श्रोत्रं चेति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् । एवं हि कपिलमतानुसारिणां घटादेरभिव्यक्तिः प्रागसती चक्रदण्डादिभिः क्रियते न पुनर्घटादिरित्यपि शक्यं प्रदर्शयितुम् । यतोत्र न कश्चिद्विशेषहेतुस्ताल्वादयो व्यञ्जकाः, न पुनश्चक्रादयोपीति, ते वा घटादेः कारकाः, न पुनः शब्दस्य ताल्वादयोपीति । न हि व्यञ्जकव्यापूतिर्नियमेन व्यङ्गयं सन्निधापयति । सन्निधापयति च ताल्वादिव्यापृतिनियमेन शब्दम् । ततो नासौ ताल्वादीनां व्यङ्ग्यश्चक्रादीनां घटादिवत्। नाय दोषः, सर्वगतत्वाद्वर्णानाम् , इत्यपि वार्तम् , प्रमाणबलायातत्वाभावात् , अन्यत्रापि तथाभावानुषङ्गात् । शक्यं हि वक्तुम् , घटादीनां सर्वगतत्वाञ्चक्रादिव्यापारान्नियमेनोपलब्धिरिति । इष्टत्वाददोषोयं कापिलानामिति चेत्, न, कारणव्यापारेष्वपि चोद्यानिवृत्तेः, चक्रादीन्यपि कारणानि स्वव्यापाराणां नियमेन सन्निधापकान्यभिव्यञ्जकानि भवन्तु, तेषां सर्वगतत्वादेवेति चोद्यस्य निवर्तयितुमशक्यत्वात् । एतेनावस्था प्रत्युक्ता । स्वव्यापारोत्पादने हि कारणानां व्यापारान्तराणि कल्पनीयानि तथा तदुत्पादनेपीत्यनवस्था स्यात्, न पुनः स्वव्यापाराभिव्यक्ती, तत्सन्निधिमात्रादेव तत्सिद्धेः अन्यथा व्यञ्जककारकयोरविशेषप्रसङ्गात् । कारणव्यापाराणां च कारणेभ्यो भेदैकान्तो वा स्यादभेदैकान्तो वा ?, तद्भेदैकान्ते तद्वतोनुपयोगः, तावतेतिकर्तव्यतास्थानात् । व्यवहारिणामभिमतकार्यसंपादनमेव हीतिकर्तव्यता । तस्याः स्थानं यदि व्यापारेभ्य एवैकान्ततो भिन्नेभ्यो भावाद्भवेत्तदा किं व्यापारवतान्यत्साध्यम् , यतस्तस्योपयोगः कचिदुपपद्यते ?, तद्वतो व्यापाराणामभेदैकान्तेभिव्यक्तिवत्प्रसङ्गस्तद्वत इव व्यापाराणां सर्वदा सद्भावः । तेषां प्रागभावे वा व्यापाराः प्रागसन्तः क्रियन्ते, न पुनस्तदव्यतिरेकिणोपि तद्वन्त इति स्वरुचि SSSSSSSk455523 For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy