SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org र्विकारस्यानादित्वप्रसङ्गः । तथा च "प्रकृतेर्महांस्ततोहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात् पश्चभ्यः पञ्च भूतानि ॥ १ ॥” इति सृष्टिक्रमकथनं विप्रतिषिध्यते । प्रध्वंसाभावस्यापहवे तस्यानन्तत्वप्रसङ्गात् पृथिव्यादीनि पश्च महाभूतानि पचसु तन्मात्रेषु लीयन्ते— पृथिव्या गन्धरूपरसस्पर्शशब्दतन्मात्रेषु प्रवेशात्, सलिलस्य रसादिषु, तेजसो रूपादिषु, वायोः स्पर्शशब्दतन्मात्रयोः, आकाशस्य शब्दतन्मात्रेऽनुप्रवेशात्, तन्मात्राणां च पश्वानां बुद्धीन्द्रियाणां कर्मेन्द्रियाणां च मनसा सह षोडशकस्य गणस्याहङ्कारेऽन्तर्भावस्तस्य च महति महतः प्रकृताविति संहारनिवेदनमतिव्याकुलं स्यात् । ततः सर्वमस्वरूपं, स्वेनासाधारणेन रूपेण कस्यचित्तत्त्वत्स्य व्यवस्थानाघटनात् । तच्च “सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः । चोदितो दधि खादेति किमुष्ट्रं नाभिधावति ॥ १ ॥” इति दूषणास्पदद्मतावकं मतम्, न तव भगवतोर्हतः, कथञ्चिदभावापह्नवाभावात् । ननु च व्यक्ताव्यक्तयोरितरेतराभावस्य तत्स्वभावस्य प्रकृतिपुरुषयोरत्यन्ताभावस्य च तद्रूपस्य महदहङ्कारादीनां प्रागभावस्य च स्वकारणस्वभावस्य महाभूतादीनां प्रध्वंसाभावस्य च स्वान्तर्भावाश्रय स्वरूपस्य सांख्यैरभ्युपगमादभावापह्नवासिद्धेः कथं सर्वात्मकत्वादिर्दोष इति चेत्, न, तथा भावैकान्तविरोधात् सर्वस्य भावाभावात्मकत्वप्रसक्तेः । न हि वयमपि भावादर्थान्तरमेवाभावं संगिरामहे, तस्य बीरूपत्वप्रसङ्गात्, नास्तीतिप्रत्ययजनकत्वरूपसद्भावादभावस्य नीरूपत्वाभावोपगमे तस्य भावस्वभावत्वसिद्धेः प्रत्ययाभिधानविषयस्यार्थक्रियाकारिणः पदार्थस्य भावस्वभावत्वप्रतिज्ञानात्, नास्तित्वस्य वस्तुधर्मत्वादस्तित्ववत् । वस्तुनोऽस्तीतिप्रत्ययविषयो हि पर्यांयोऽस्तित्वं, नास्तीतिप्रत्ययविषयस्तु नास्तित्वम् । निष्पर्यायद्रव्यैकान्तपक्षे सर्वात्मकत्वादिदोषानुषङ्गः कथं परिहर्तुं शक्यः ?, सर्व विवर्तात्मकस्यैकस्यानाद्यनन्तस्य प्रधानस्येष्टत्वात् तद्व्यतिरेकेण सकलविशेषाणां तत्त्वतोऽसम्भवात्सिद्धसाधनमिति चेत्, न, प्रकृतिपुरुषयोरपि विशेषाभावानुषङ्गात्, सत्ताव्यतिरेकेण तयोरप्रतिभासनात्सत्ताद्वैतप्रसङ्गात् । तदेवास्तु, चेतनेतरविशेषाणाम For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy