SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ ॥१३५॥ परिच्छेद: प्रथमः॥ विद्योपकल्पितत्वादिति चेत्, कुतः पुनर्विशेषानपढुवीत ? न तावत्प्रत्यक्षात् , तस्य विधायकत्वनियमात् , विशेषप्रतिषेधे प्रवृत्त्ययोगात् । नाप्यनुमानादागमावा, तस्यापि प्रतिषेधकत्वानिष्टेः, अन्यथा प्रत्यक्षस्यापि प्रतिषेधकत्वप्रसङ्गात् स्वयं न कुतश्चित्प्रमाणादयं विशेषानपद्भुते । किं तर्हि ? तत्साधनव्यभिचारात् । वस्तुविशेषसाधनवादिना हि न कारणभेदस्तत्साधनं प्रयोक्तव्यम् , तस्याभेदवादिनं प्रत्यसिद्धत्वात् । नापि विरुद्धधर्माध्यासः, तत एव । किं तर्हि ? संविनि सभेदाद्भाववस्भावभेदः प्रकल्प्येत । स पुनरभेदेप्यात्मनः खण्डशः प्रतिभासनात् व्यभिचारी । ननु ज्ञानात्मनः खण्डशः प्रतिभासनस्य विभ्रान्तत्वात्तत्त्वतस्तस्यैकत्वान्न तेन व्यभिचारः । तदुक्तम्, "अविभागोपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥१॥” इति चेत् , तदन्यत्रापि विभ्रमाभावे कोशपानं विधेयम् । शक्यं हि वक्तुम् , संविनिर्भासभेदः कुतश्चित्प्रतिपत्तुर्विभ्रम एव, तत्त्वतः संविन्मात्रस्याद्वयस्य व्यवस्थितेः । “यथा विशुद्धमाकाशं तिमिरोपप्लुतो नरः। सङ्कीर्णमिव मात्राभिभिन्नाभिरभिमन्यते ॥१॥ तथेदममलं ब्रह्म निर्विकल्पमविद्यया। कलुषत्वमिवापन्नं भेदरूपं प्रपश्यति ॥२॥" इति वचनात् । तथा चासिद्धं विशेषसाधनं न साध्यसाधनायालम् । तदेकं चक्षुरादिज्ञानप्रतिभासभेदवशापादिव्यपदेशभाग् ग्राह्यग्राहकसंवित्तिवत् । चक्षुरादिज्ञानप्रतिभासभेदोप्यसिद्ध एवाभेदवादिन इति चेत्, ग्राह्यग्राहकसंवित्तिप्रतिभासभेदोपि भेदवादिन: किमेकत्र ज्ञानात्मनि सिद्धः?, संवृत्या सिद्ध इति चेत्, समः समाधिः। योपीतरेतराभावप्रत्ययाद्भावस्वभावभेदं साधयेत्तस्य इतरेतराभावविकल्पोपि कथमयथार्थो न स्याद्वर्णादिविकल्पवत् । वर्गादिप्रत्ययो भावस्वभावभेदं स्वसाध्यमर्थमन्तरेणैव भावाद् व्यभिचारित्वादयथार्थो, न पुनरितरेतराभावप्रत्यय इत्यशक्यव्यवस्थम्, तस्य भावाभावयोरभेदे भेदेपीतरेतराभावप्रत्ययेन व्यभिचारात् । न हि वस्तुव्यतिरिक्तमसन्नाम, प्रमाणस्यार्थविषयत्वात् । प्रत्यक्षमभावविषयं भवत्येव, तस्येन्द्रियैः संयुक्तविशेषणसंबन्धसद्भावाद्, घटाभावविशिष्टं भूतलं 1564 २॥१३५॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy