________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir INT
परिच्छेदः प्रथमः॥
अष्टसहस्री विवरणम् ॥ ॥१३४ ॥
*SACH
कार्यनुप्रवेशादेव शिंशपापि जायत इति न कश्चिद्विशेषः । एवमेतत् , किन्तु शिंशपाजनकास्तरुसामग्रीमुपादायैव चलनजनकास्तु न तामेव किन्तु मूर्तमानं तथादर्शनादिति चेत् , तर्हि शिंशपाया वृक्षविशेषत्वाविशेषे कौतस्कुतोयं फलं प्रत्येकान्तानेकान्तविशेषः । तत्तत्सहकारिभावाभावकृतः स इति चेत्, तासादितसहकारिणोऽसदृशरूपा अपि केचित्कंपकारिणाऽनीदृशास्तु न तथेति तद्वा तादृग्वेति न कश्चिद्विशेष इति स्यादिति कुतः क्षणिकत्वं वैजात्याभ्युपगमे च कुतोऽनुमानवार्ता माभूदनुमानमिति चेत्, तर्हि तेन विना कुतस्तत्सिद्धयेत्, न हि क्षणिकत्वे प्रत्यक्षमस्ति तथानिश्चयाभावात् , गृहीतनिश्चित एवार्थे तस्य प्रामाण्यात्, अन्यथातिप्रसङ्गादिति हता बौद्धबुद्धिस्तदाहुरुदयनाचायो:-"न वैजात्यं विना तत्स्यान्न तस्मिन्ननु मा भवेत् । न विना तेन तसिद्धिर्नाध्यक्षं निश्चयं विनेति ॥ १॥" ॥ ८॥
भावैकान्ते पदार्थानामभावानामपलवात् । सवोत्मकमनाद्यन्तमस्वरूपमतावकम् ॥९॥
पदार्थाः प्रकृत्यादीनि पञ्चविंशतितत्त्वानि । "मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश विकारो न प्रकृतिने विकृतिः पुरुषः॥१॥” इति वचनात् । तेषामस्तित्वमेवेति निश्चयो भावैकान्तः । तस्मिन्नभ्युपगम्यमाने सर्वेषामितरेतराभावादीनामभावानामपह्नवः स्यात्। ततः सर्वात्मकत्वादिप्रसङ्गः । तत्र व्यक्ताव्यक्तयोस्तावदितरेतराभावस्यापहवे व्यक्तस्याव्यक्तात्मकत्वे सर्वात्मकत्वम् । तथा च। "हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्र व्यक्तं विपरीतमव्यक्तम् ॥१॥” इति व्यक्ताव्यक्तलक्षणभे
दकथनविरोधः । प्रकृतिपुरुषयोरत्यन्ताभावनिहवे प्रकृतेः पुरुषात्मकत्वे सर्वात्मकत्वमेव । तथा च "त्रिगुणमविवेकि विषयः सामान्यमPI चेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्॥१॥” इति तल्लक्षणभेदकथनव्याघातः। प्रागभावस्यापहवे महदहकारादे
॥ १३४॥
For Private And Personal Use Only