________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailasagarsur Gyanmandir
दत्तं दूषणं योगाचारसौत्रान्तिकमतयोरप्यतिदिशति भाष्यकृत्-न केवलमित्यादि । न केवलं स्वभावनैरात्म्ये तत्त्वोपप्लववादिमाध्यमिकमते (२) स्वभावशून्यत्व एवायमनन्तरोक्तो दोषः। किन्त्वन्तस्तत्ववादिनो योगाचारस्यान्तर्बहिस्तत्त्ववादिनः सौत्रान्तिकस्य च मते, निरन्वयसत्त्वेऽपि क्षणस्थितिमात्रनिरन्वयसत्त्वाङ्गीकारेऽप्ययं दोषस्तदवस्थ एवेत्यक्षरार्थः । 'कार्यकालमिति' (५) कारणस्य कार्यसहभावव्याप्यतायाः सामग्र्याश्च स्वकाले कार्योत्पत्तिव्याप्यतायाः न्याय्यत्वाद् व्यवहितोत्तरक्षणप्रवेशे गौरवादिति भावः । प्रसङ्गादिति (६) न चेष्टापत्तिः, सव्येतरगोविषाणयोः कार्यकारणभावस्य सर्वैरनभ्युपगमादिति भावः । तदकारणत्वसाधनात्तत्र (७) कार्येऽकारणत्वसाधनात् , अन्यकार्यवदन्यकार्य इव, तस्य वा प्रकृतकार्यस्य, तदकार्यत्वसिद्धेः प्रकृतकारणाकार्यत्वसिद्धेः। तद्वत( ) अन्यकार्यस्येव, तदनन्तरं सामग्रीप्रविष्टतदव्यवहितोत्तरक्षणे, सम्भवति समीचीनतया घटते, एककारणस्य कार्योत्पत्यव्याप्यत्वादितिद्रष्टव्यम् । अत्राप्यव्यवहितत्वमनतिप्रयोजनमित्यभिप्रेत्याह भाष्यकृत्, 'कालान्तरेऽपीति' (८) त्यज्यतां तीव्यवहितत्वभागः पूर्वभावित्वपश्चाद्भावित्वे तु कारणकार्यशरीरघटकेऽवश्यं वाच्ये, अन्यथा समानक्षणवर्तिनां सर्वेषां कार्यकारणत्वप्रसङ्गादित्याशयवानाह, 'कालान्तरेऽपीति (८),' इदमुपलक्षणं स्वमज्ञानस्यापि कालान्तरीयजाग्रज्ञाने हेतुतायाः प्रज्ञाकरेणाभ्युपगमादितिद्रष्टव्यम्। एवमभ्युपगमे क्षणिकत्वसाधकयुक्तिर्विरुध्यत इति दूषणमाह, समर्थे सत्यभवत इत्यादि (९),कालनियमकल्पनायामिति(११)यत्काले यअननसमर्थ यत्तत्काले ततस्तदुत्पत्तिरिति स्वभावकल्पनायां बौद्धेन क्रियमाणायामित्यर्थः । समानः परिहार इति (११) स्थिरपक्षेऽपि कारणान्तरसाहित्येनैव कार्योपधायकत्वस्वभावस्य कारणे कल्पनेन समर्थासमर्थत्वाभ्यां भेदाभावादित्यर्थः । न
२३
For Private And Personal Use Only