________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagersuri Gyanmandir
अष्टसहस्त्री विवरणम् ॥
॥१३२॥
C5A525ARSHA
तस्यापि स्वरूपेणेति (३) स्वरूपेण सच्चे पररूपेण चाऽसत्त्वेऽनुभव एव साक्षीति भावः । न च प्रसिद्धन पररूपेणासत्त्वमनु- परिच्छेद भूयतां न तु शशशृङ्गादिवदप्रसिद्धेनेति न क्षणिकायेकान्तस्य स्वरूपेण सत्त्वे पररूपेणानेकान्तेनासवानुरोधादनेकान्ताभ्युपग- प्रथमः॥ मापत्तिरिति शङ्कनीयम् । स्थिरपक्षे स एवायमित्यादौ क्षणिकपक्षेऽपि चित्रज्ञानादौ भेदाभेदाधनेकान्तस्यानुभवसिद्धत्वेनासचारोपविषयतयाऽपि तहुर्निवारतेत्यत्र तात्पर्यात्,एतेनासत्ख्यातिसिद्धेनानेकान्तरूपेण व्यधिकरणधर्मावच्छिन्नप्रतियोगिकत्वादिना वाऽसत्वेऽपि न वस्तुसिद्धिरित्यपास्तम्। अनाश्रयं (५) एकान्ताश्रयनिरासात् , तत (५) एकान्तनिरासात्, अनुष्ठानं तपश्चरणादि, एकान्तवादिनामिति शेषः। अभिमतव्याघातकृत् स्वर्गापवर्गफलनिराकरिष्णुः स्यात् , सदेकान्ते दोषं दर्शयन्नसदेकान्तस्यन्याय्यतामाशङ्कते पूर्वपक्षी ननु चेत्यादिना(६), कर्मण इत्यादि पष्ठ्यन्तत्रयस्य माभूत् (७) इत्यनेनान्वयः, सर्वथा सतस्तदघटनादिति (७) हेतुः। तदघटनाजन्माघटनात् , सर्वथासत्त्वं ह्याकाशादावुत्पत्यभावव्याप्यत्वेन दृष्टम् , ततस्तथात्वे उत्पत्तिर्न घटत इति भावः, कर्मविशेषात् (७) अयत्याश्रमविहिततपश्चरणादिकर्मणः, तत्त्वज्ञानादेः (७) आत्मसाक्षात्कारादेः, आदिनामिथ्याज्ञानध्वंसपरिग्रहः, तत्वज्ञानमेवादिः कारणं तस्मादिति वा, वाकारो मतद्वयामिव्यक्त्यर्थः, केचित् खलु कर्मण एव मुक्तिमिच्छन्ति, अपरे च तत्त्वज्ञानादेवेति । तस्य (८) कर्मादेः, ततः(८) कायादिव्यापारादेः, प्रागसत (८) इति, कारणसामग्र्याः कार्योत्पत्तिव्याप्यत्वादुत्पत्तेराधक्षणसम्बन्धरूपत्वादसदेकान्ते कार्यजन्माविरोधादिति भावः, समाधत्ते-'उभयत्रेत्यादि (८)। उभयत्र सदसत्कार्यपक्षयोः।व्यलीकप्रतिभासानुपरमप्रसङ्गादिति, (९), असतो निरवधित्वेन यथास्वभावं सततोत्पत्त्यनुत्पत्त्यन्यतरध्रौव्यादिति भावः तेषां (१२) व्यलीकप्रतिभासानाम् , अभावैकान्ते (१३१-१-१) माध्यमिकमते 18॥१३॥
For Private And Personal Use Only