________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥ ॥ १३३॥
2000H
परिच्छेदः प्रथमः॥
च कारणान्तरसाहित्यगर्भकार्योपधायकत्वस्वभावस्य कल्पने सदा गलेपादिकया कारणं कारणान्तरमप्युपनयेदिति परेण वक्तुं शक्यम् । कालान्तरे कार्यजनकत्वस्वभावाभ्युपगमे गलेपादिकया कालान्तरमप्युपनयेदित्यस्याचलवादिभिरपि वक्तुं शक्यत्वान्मृषिकालर्कविषविकारादेः कालान्तरे कार्योत्पादकत्वेष्टिव्याघातात् तत्तद्घटकस्य स्वभावपरिचायकत्वोक्तरप्युभयत्र तौल्यादिति द्रष्टव्यम् । एतदेवाह वृत्तिकृत् , यथैव हीत्यादि(११), तस्यापि तथाविधैकस्वभावत्वादिति(१३१-२-२)यथा क्षणिकस्याक्रमिकनानाकार्यकरणैकस्वभावत्वं तथा शाश्वतिकस्यापि क्रमिकनानाकार्यकरणैकस्वभावत्वमविरुद्धमिति भावः। अत्र नित्ये,
कथमुत्पत्तिर्वेति सोऽयं पर्यनुयोगः, तत्र क्षणिकपक्षे, समानः एकान्तग्रहे दोषस्यानेकान्तग्रहे च परिहारस्योभयत्रावि| शेषात् , सदेकान्ते कथश्चित् कार्योत्पत्तिसम्भवमाह भाष्यकृत् , अत्रैकत्वविरोधमुद्भाव्य संवेदनप्रतिवन्द्या प्रघट्टेन परिहरति वृत्तिकृत् नन्वेकत्वं विरुध्यत इत्यादिना (४) प्रकृतपर्यनुयोगस्याविशेषादिति दूषणं सांख्यं प्रति सौगतेन दत्तं तत्सौगतस्याप्यायाति यतस्तन्मते संवेदनं ग्राह्यग्राहकाकारवैश्वरूप्यमनुभवेदेकेन स्वभावेनानुभवेदनेकेन वा, आद्ये ग्राह्यग्राहकाकारयोरेकत्वापत्तिः, अन्त्येऽनेकस्वभाववतः कथमेकस्वभावत्वं संवेदनादाकारद्वयभिन्नतोपगमे चास्य तदिति व्यपदेशः कुतः, सम्बन्धाचेत् , स सम्बन्धस्तद्धतुरेकेन स्वभावेनानेकेन वा, अत्राप्युत्तरं पूर्ववदिति दुरुत्तरानवस्थातरङ्गिणीति शून्यसंवित्पक्षेऽप्येकत्वस्यानेकत्वेनाविरोधबलादापादयति भाष्यकृत्, क्षणस्थायिन इत्यादि (९) कस्यचित् शून्यसंविन्मात्रस्य, अनभ्युपगमेऽपीत्यनन्तरं तत्त्वत इति शेषः। विवेकम् (९) अभावम् , परोक्षम् अनुमानविषयम् , बिभ्राणस्य(१०)स्वरूपसम्बन्धेन क्रोडीकुर्वतः, सामर्थ्यप्राप्तेयुक्तिसिद्धत्वात् , संवेदनैकस्य क्षणिकज्ञानाद्वैतस्य, ननु ग्राह्यग्राहकाकारविविक्ततयापि संवेद
R
१३३॥
OGRE
For Private And Personal Use Only