SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्ट सहस्री विवरणम् ॥ ॥ १२२ ॥ www.kobatirth.org I लब्धिनिवृत्तावप्यभावासिद्धेः । तत्रोपलब्धिलक्षणप्राप्तिः स्वभावविशेषः कारणान्तरसाकल्यं च स्वभावविशेषः । यन्न त्रिविधेन विप्रक| विप्रकृष्टं यदनात्मरूपप्रतिभासविवेकेन प्रतिपत्तृप्रत्यक्षप्रतिभासिरूपं स तादृशः सत्स्वन्येषूपलम्भकारणेषु तथानुपलब्धोऽसदुव्यवहारविषयः । ततोन्यथा सति लिङ्गे संशयः । अत्रापि सर्वमेवंविधमसद्व्यवहारविषयः । इति व्याप्तिः, कस्यचिदसतोऽभ्युपगमेऽन्यस्य तल्लक्षणाविशेषात् । न ह्येवंविधस्यासन्त्वानभ्युपगमेऽन्यत्र तस्य योगः । न ह्येवंविधस्य सतः सत्स्वन्येषूपलम्भकारणेष्वनुपलब्धिः । अनुपलभ्यमानं त्वीदृशं नास्तीत्येतावन्मात्रनिमित्तोऽयमसद्व्यवहारः, अन्यस्य तन्निमित्तस्याभावादिति । तचैवं त्रिविधस्य हेतोः समर्थनं न रूपान्तरं, विपक्षव्यावृत्तिरूपत्वात्, तृतीयस्यैव रूपस्यासपक्षास स्वलक्षणस्यैवं प्रतिपादनात् । तदवचने साधनाङ्गस्य त्रिरूपलिङ्गस्मावचनादसाधनाङ्गवचनं निग्रहाधिकरणं प्रसज्येत । निगमनादेस्तु हेतुरूपातिरिक्तत्वादभिधानमनर्थकं, त्रिरूपद्देतुना साध्यार्थप्रतिपत्तेर्नि हितत्वात् । ततो निगमनादीनऽतिशेते एव समर्थनमिति । तदेतदपि स्वदर्शनानुरागमात्रं सौगतस्य निगमनादेरपि साधनावयवत्वात्, प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति परैरभिधानात् निगमनस्योपनयस्य वा संगरस्येवावचने म्यूनाख्यस्य निग्रहस्थानस्य प्रसक्तेः, हीममन्यतमेनापि न्यूनमिति वचनात् । यदि पुनः साधनावयवत्वेपि निगमनादेर्वचनमयुक्तं, हेत्वादिनैवार्थप्रत्यायनाद मतं तदा समर्थनस्य हेतुरूपत्वेऽपि निर्दोषहेतुप्रयोगादेव साध्यप्रसिद्धेस्तदभिधानमनर्थकं कथं न भवेत् ? यतः समर्थनं निगमनादीनतिशयीत । हेतोर्विपक्षव्यावृत्तिसाधनलक्षणस्य समर्थनस्यावचने रूपान्तरसस्वेऽपि गमकत्वासम्भवान्निगमनाथचचनेऽपि गमकत्वोपपतेः समर्थनं निगमनादीनविशयीतेति चेत्, हन्त इतोसि, पक्षधर्मत्वसपक्षसन्त्वयोर्हेतुरूपत्वा पायापत्तेः, अन्यथानुपपन्नत्वस्यैव तथाहेतुलक्षणत्वसिद्धेः, तस्यैव समर्थनरूपत्वात, सद्भावे एव हेतोः प्रयोजकत्वदर्शनात्, पक्षधर्मत्वादिप्रयोगे वादिनोऽसाधनाङ्गवचनस्य निग्रहस्थान For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ॥ ॥ १२२ ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy