________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
त्वप्रसक्तेः । प्रतिपाद्यानुरोधतः पक्षधर्मत्वादिवचनान्न निग्रहप्राप्तिरिति चेत्, तथा निगमनादिवचनादपि सा मा भूत्, सर्वथातिशयासत्वात् । यदि पुनरयं निर्बन्धः प्रतिपाद्यानुरोधतोप्यतिरिक्तवचनमसाधनाङ्गवचनं निग्रहस्थानमिति तदा सत्त्वमात्रेण नश्वरत्वसिद्धावुत्पत्तिमत्त्वकृतकत्वादिवचनमतिरिक्तविशेषणोपादानात् कृतकत्वप्रयत्नानन्तरीयकत्वादिषु च कप्रत्ययातिरेकादसाधनाङ्गवचनं पराजयाय प्रभवेत् । कचित्पक्षधर्मत्वप्रदर्शनं, संश्च शब्द इत्यविगानात् । यस्य निरुपाधि सत्त्वं प्रसिद्धं तं प्रति शुद्धः स्वभावहेतुः प्रयुज्यते, नश्वरः शब्दः सत्त्वादिति । यस्य त्वनर्थान्तरभूतविशेषणं सत्त्वं प्रसिद्धं तं प्रति सोऽनर्थान्तरभूतविशेषण एवोत्पत्तिमत्त्वादिति । यस्य पुनरर्थान्तरभूतविशेषणं सत्त्वं संप्रसिद्धं तं प्रत्यर्थान्तरभूतविशेषण एव कृतकत्वादिति, “अपेक्षितपरव्यापारो हि भावः कृतक ” इति वचनात् । तथा कृतकत्वात्प्रयत्नानन्तरीयकत्वादित्यादिषु च स्वार्थिकस्य कप्रत्ययस्याभिधानमपि तादृशशब्दप्रसिद्ध्यनुसारिणं प्रति नातिरिक्तमुच्यते, अन्यथाप्रयोगे तदपरितोषात् । तथा च यत्सत्तत्सर्वं क्षणिकं यथा घट इतीयता शब्देऽप्यविगानेन सत्त्वप्रतिपत्तावपि संख शब्द इति पक्षधर्मप्रदर्शनं नातिरिक्तवचनं, तदन्तरेण तत्प्रतिपत्तुमशक्तं प्रति तथावचनाच्छन्तं प्रति तदवचनात् “ विदुषां वाच्यो हेतुरेव हि केवलः " इति वचनान्न पराजयाय कस्यचित्प्रभवेत् इति बदन्तः सौगताः प्रतिपाद्यानुरोधतः साधर्म्यवचनेपि वैधर्म्य - वचनं तद्वचनेपि च साधर्म्यवचनं पक्षादिवचनं वा नेच्छन्तीति किमपि महाद्भुतम् । तथा तदिष्टौ वा तद्वचनं निग्रहाधिकरणमित्ययुक्तमेव व्यवतिष्ठते । किन कचित्पक्षधर्मत्वप्रदर्शनं संश्च शब्द इत्यविगानान्, त्रिलक्षणवचनसमर्थनं च असाधनाङ्गवचनमपजयप्राप्तिरिति व्याहतं संश्च शब्द इति वचनमन्तरेणापि शब्दे सस्वप्रतीतेस्तस्य निग्रहस्थानत्वप्रसङ्गात् । प्रतिज्ञावचनवदसाधनाङ्गत्वात्तस्थानिग्रहस्थानत्वे वा संगरवचनादेरप्यपजयप्राप्तिविरोधात्पक्षधर्मप्रदर्शनमसाधनाङ्गवचनादपजयप्राप्त्या व्याहतमेष । त्रिलक्षणवचनस
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir