________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
प्रमाणम् । यस्य क्रमयोगपद्याभ्यां न योगो, न तस्य कचित्सामर्थ्यम् । अस्ति चाक्षणिके सः । इति प्रवर्तमानमसामर्थ्यमसल्लक्षणमाकपति । तेन यत्सत्कृतकं वा तदनित्यमेवेति सिध्यति । तावता च साधनधर्ममात्रान्वयः साध्यधर्मस्य स्वभावहेतुलक्षणं सिद्धं भवति । अत्राप्यदर्शनमप्रमाणं यतः क्रमयोगपद्याऽयोगस्यैवासामर्थ्येन व्याप्त्यसिद्धेः पूर्वस्यापि हेतोः सत्त्वादेर्न व्याप्तिसिद्धिः । पुनरिहापि साधनोपगमेऽनवस्थाप्रसङ्ग इति न चोद्यम् , इष्टस्याभावसाधनस्यादर्शनस्य प्रमाणत्वाप्रतिषेधात् । यददर्शनं विपर्यय साधयति हेतोः साध्यविपर्यये तदपि विरुद्धप्रत्युपस्थानाद्बाधकं प्रमाणमुच्यते । एवं हि स हेतुः साध्याभावेऽसन् सिध्येद्यदि तत्र प्रमाणवता स्वविरुद्धन बाध्येत । अन्यथा तत्रास्य बाधकासिद्धौ संशयो दुर्निवारः । न च सर्वानुपलब्धिर्भावस्य बाधिका, दृश्यानुपलब्धेरेव तद्बाधकत्वात् । तत्र सामर्थ्य क्रमाक्रमयोगेन व्याप्तं सिद्धं, प्रकारान्तरासंभवात् । तेन व्यापकधर्मानुपलब्धिरक्षणिके सामर्थ्य बाधत इति क्रमयोगपद्यायोगस्य सामर्थ्याभावेन व्याप्तिसिद्धे नवस्थाप्रसङ्ग इति स्वभावहेतोः समर्थनम् । कार्यहेतोरपि, यत्कार्य लिङ्गं कारणसाधनायोपादीयते तस्य तेन कार्यकारणभावप्रदर्शनं प्रमाणाभ्याम् । यथेदमस्मिन् सति भवति सत्स्वपि तदन्येषु समर्थेषु तद्धेतुषु, तदभावे न भवतीति । एवं ह्यस्यासन्दिग्धं तत्कार्यत्वं समर्थितं भवति । अन्यथा केवलं तदभावे न भवतीत्युपदर्शनेऽन्यस्यापि तत्राभावे सन्दिग्धमस्य सामर्थ्य स्यात् , अन्यत्तत्र समर्थ, तदभावे तन्न भूतमिति शङ्कायाः प्रतिनिवृत्त्यभावात् । एतन्निवृत्तौ पुनर्निवृत्तौ यदृच्छासंवादो मातृविवाहोचितदेशजन्मनः पिण्डखजूरस्य देशान्तरेषु मातृविवाहाभावेऽभाववत् एवं समर्थितं तस्य कार्य सिद्ध्यति। सिद्धं स्वसंभवेन तत्संभवं साधयति, कार्यस्य कारणाव्यभिचारात् । अव्यभिचारे च स्वकारणैः सर्वकार्याणां सदृशो न्याय इति । अनुपलब्धेरपि समर्थन, प्रतिपत्तुरुपलब्धिलक्षणप्राप्तस्यानुपलब्धिसाधनं, तादृशस्यैवानुपलब्धेरसद्व्यवहारसिद्धः, अनुपलब्धिलक्षणप्राप्तस्य प्रतिपत्तुः प्रत्यक्षोप
For Private And Personal Use Only