SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir इति सर्वमवदातम् । जीवत्वान्यथानुपपत्तरिति (९१-२-११) जीवस्य सतोऽभव्यादेरप्यावरणवचादावरणेन च सतामेव ज्ञानादिगुणानामभिभवस्य कतुं शक्यत्वादभन्यादेरपि ज्ञानादिगुणस्वभावत्वमेवेत्यर्थः । यद्यप्यभव्यादावात्मनि गुणदोषोभयस्वभावत्वमविरुद्धं, परेषामवयविगुणेऽवयवगुणस्येवास्माकं विभावगुणपर्याये स्वभावगुणपर्यायस्य हेतुत्वसम्भवात् , शुद्धात्मत्वावृतत्वावच्छेदकमेदेन चोभयसमावेशस्याप्यविरोधादात्माष्टकनिर्देशकपारमर्षस्याप्येतदर्थानुकूलत्वात् तथापि प्राधान्येन व्यपदेशा भवन्तीति न्यायानुसारिणीयमुक्तिरिति ध्येयम् । सूक्ष्मान्तरितदरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥५॥ सूक्ष्माः स्वभावविप्रकर्षिणोः परमाण्वादयः, अन्तरिताः कालविप्रकर्षिणो रामादयो, दूरास्तु देशविप्रकर्षिणो हिमवदादयस्ते कस्यचित्प्रत्यक्षा, अनुमेयत्वाद्यथाऽग्न्यादिरित्येवं सर्वज्ञस्य सम्यक् स्थितिः स्यात् । अथ मतमेतत् "सूक्ष्मादयोऽर्था यथाभूताः कस्यचिप्रत्यक्षा दृष्टास्तथाभूता एव तथानुमेयत्वेन साध्यन्तेऽन्यथाभूता वा ! तथाभूताश्चेत्सिद्धसाध्यता, सूक्ष्माणां सहस्रधा भिन्नकेशायादीनामन्तरितानां च प्रपितामहादीनां दूरार्थानां च हिमवदादीनां कस्यचित्प्रत्यक्षत्वप्रसिद्धेः । अन्यथाभूतानां तु कस्यचित्प्रत्यक्षत्वसाधनेऽनुमेयत्वादित्यप्रयोजको हेतुः, क्ष्माधरादीनां बुद्धिमत्कारणत्वे साध्ये सन्निवेशविशिष्टत्वादिवत् । धर्म्यसिद्धिश्च, परमाण्वादीनामप्रसिद्धत्वात्” इति तदयुक्तं, विवादाध्यासितानां सूक्ष्माद्यर्थानां कस्यचित्प्रत्यक्षत्वेन साध्यत्वादप्रसिद्धं साध्यमिति वचनात् । धर्मादयो हि कस्यचित्प्रत्यक्षत्वेन वादिप्रतिवादिनोर्विवादापन्नास्ते एव कस्यचित्प्रत्यक्षा इति साधयितुं युक्ता न पुनरन्ये । न चैवं धर्म्यसिद्धिः, धर्मादीनामसर्वज्ञवादिनोपि याज्ञिकस्य सिद्धत्वात् । नन्वेवं भूधरादीनां धीमद्धेतुकतया विवादापन्नानां तथा साध्यत्वे कथमप्रयोजको KESAKACROS SAX For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy