________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्री विवरणम्॥ ॥९३॥
परिच्छेदा प्रथमः॥
व्याप्यजात्यवच्छेदेन नियतपर्यायारम्भवादो, न तु तवान्तरजात्यवच्छेदेनेति परमार्थः । युक्तं चैतत्, परेषां जन्यपृथिवीत्वा
द्यवच्छिन्ने पृथिवीत्वादिना हेतुत्वे गौरवादित्यादि विपश्चितमन्यत्र । एतेनोत्तरपर्यायस्यैव पूर्वपर्यायध्वंसत्वेन, तुच्छः षट्पका दा भिन्नत्वेनाभिमतः, ततो नातिप्रसज्यत (९०-२-६) इति कर्मवैकल्येऽप्यात्मकैवल्यवबुद्धिवैकल्येऽप्यात्मकैवल्यं
स्यादित्यतिप्रसङ्गो नापद्यते, स्वलक्षणीभूतनिःशेषपर्यायवैकल्यस्यासाध्यत्वादसत्त्वाचेति भावः । न च लक्षणाभाव (९०-२-११) इत्यादि, तथा च बुद्धिपर्यायः स्वाश्रयद्रव्ये निःशेषतो हीयते पर्यायत्वादित्यत्र स्वलक्षणतावच्छेदकानवच्छित्वस्योपाधेः सत्त्वादगमकत्वमिति भावः । यद्यपि कर्मपर्यायत्वमपि कर्मद्रव्यलक्षणतावच्छेदकमेव, तथापि द्रव्यविभाजकोपाध्यवच्छिन्नलक्ष्यतानिरूपितलक्षणतावच्छेदकानवच्छिन्नत्वमुपाधिरित्यत्र तात्पर्यम् । 'न पुनर्द्रव्यार्थतयेति' (९०-२-१२) द्रव्यार्थतया हानेरतद्रव्यस्वरूपत्वादिति भावः । कादाचित्कश्चात्मनि दोष (९१-१-४) इति, तथा च कादाचिस्कत्वादज्ञानादेर्दोषस्य द्रव्यार्थतया हानिरविरुद्धेति, सा चास्मदुक्तविशेषणमुद्रयैव भावनीया । कादाचित्कत्वं च यद्यपि बुख्यादेरप्यस्ति, तथाप्यधिकृतपर्यायतावच्छेदकावच्छेदेन तत्त्वं द्रव्यार्थतया निःशेषहानिव्याप्यं, न च बुद्धिपर्यायत्वावच्छेदेन तत्त्वमस्ति स्वलक्षणत्वव्याघातात् , वस्तुतः शुद्धद्रव्यार्थताया हानिरप्रसिद्धव, आदिष्टद्रव्यार्थतया त्वज्ञानस्येव बुद्ध्यादेरपि हानेः पर्यार्थतापर्यवसन्नत्वान्न दोषावहत्वं, केवलज्ञानस्यापि 'जे संघयणाईआ इत्यादिग्रन्थेन भवस्थकेवलिपर्यायतया हानेः सम्म
त्यादिसिद्धत्वेनापसिद्धान्तगन्धस्याप्यभावात् , केवलं प्रवाहतः पर्यायार्थतयाऽज्ञानादेहानिर्न तु बुद्ध्यादेः, तत्र च प्रतीत्यसमुत्पा| दापेक्षया द्रव्यार्थत्वमुच्यतइत्येतावान् स्वसमयसिद्धो विवेकः तिरोभावादिना गुणवद्दोषस्य सातत्यं त्वनुपदमेव निराकरिष्यत
For Private And Personal Use Only