SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ।। ॥ ९४ ॥ www.kobatirth.org हेतुः सन्निवेशविशिष्टत्वादिरिति चेत्, स्वभावभेदात् । यादृशमभिनवभवनादिषु सन्निवेशविशिष्टत्वमक्रियादर्शिनोपि कृतबुद्धयुत्पादकं धीमद्धेतुकत्वेन व्याप्तं प्रतिपन्नं तादृशमेव जीर्ण प्रासादादिपूपलभ्यमानं धीमद्धेतुकत्वस्य प्रयोजकं स्यात्, नान्यादृशं भूधरादिषु प्रतीयमानमकृतबुद्धयुपतदकमिति स्वयं मीमांसकैरभिधानात् । नैवमनुमेयत्वं, तस्य स्वभावभेदाभावात् । न हि साध्याविनाभावनियमनिश्वयैकलक्षणलिङ्गजनितज्ञानविषयत्वमनुमेयत्वमग्न्यादौ धर्मादौ च लिङ्गिनि भिद्यते, येन किञ्चित्प्रयोजकमपरमप्रयोजकमिति विभागोऽवतरेत् । स्वभावकालदेशविप्रकर्षिणामनुमेयत्वमसिद्धमित्यनुमानमुत्सारयति यावान् कश्चिद्भावः स सर्वः क्षणिक इत्यादिव्याप्तेरसिद्धौ प्रकृतोपसंहारायोगादविप्रकर्षिणामनुमितेरानर्थक्यात् सत्त्वादेरनित्यत्वादिना व्याप्तिमिच्छतां सिद्धमनुमेयत्वमनवयवेनेति न किचिव्याहतं पश्यामः । स्यान्मतं "केचिदर्थाः प्रत्यक्षा, यथा घटादयः केचिदनुमेया ये कदाचित्कचित् प्रत्यक्षप्रतिपन्नाविनाभाविलिङ्गाः, केचिदागममात्रगम्याः सर्वदा स्वभावादिविप्रकर्षिणो धर्मादयः; तेषां सर्वप्रमातृसम्बन्धिप्रत्यक्षादिगोचरत्वायोगात् । तदुक्तं "सर्वप्रमातृसम्बन्धिप्रत्यक्षादिनिवारणात् । केवलागमगम्यत्वं उप्स्यते पुण्यपापयोः " ॥ १ ॥ इति । “ततो धर्मादीनामनुमेयत्वमसिद्धमुद्भावयन्नपि नानुमानमुत्सारयति, तस्यानुमेयेऽर्थे व्यवस्थानात्' इति, तदसत्, धर्मादीनामप्यनित्यत्वादिस्वभावतयाऽनुमेयत्वोपपत्तेः । तथा हि । यावान्कविद्भावः पर्यायाख्यः स सर्वोऽनेकक्षणस्थायितयाऽ क्षणिको यथा घटस्तथा च धर्मादिरिति मीमांसकैरपि कुतश्चित् पर्यायत्वादेरनित्यत्वेन व्याप्तिः साधनीया, तदसिद्धौ प्रकृतेपि धर्मादौ पर्यायश्च धर्मादिरित्युपसंहारायोगात् । कथं चायं स्वभावादिविप्रकर्षिणामनुमेयत्वमसिद्धमभिदधानः सुखादीनामविप्रकर्षिणामनुमितेरानर्थक्यं परिहरेत् ? शश्वदविप्रकर्षिणामनुमितेर निष्ठेरदोष इति चेत्, क पुनरियमनुमितिः स्यात् ? कदाचिदविप्रकर्षिणामन्यदा देशादिविप्रकृष्टानां प्रतिपन्नाविनाभाविलिङ्गानामनुमितिरितिचेत् कथमेवं शश्वदप्रत्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ॥ ॥ ९४ ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy