SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir अष्टसहस्री विवरणम् ॥ ॥८५॥ परिच्छेदाः प्रथमः॥ त्वेनानेकान्तात्मतांशे विधिरूपत्वादेकान्तास्मतांशे च निषेधरूपत्वात् , अत एव गवादौ शृङ्गादिज्ञानस्यैव शशशृङ्गानुपलम्भरूपत्वे शशशृङ्गाभावप्रसिद्धिः सङ्गच्छतेऽनुयोगित्वप्रतियोगित्वादेर्वैज्ञानिकस्य वस्त्वसाधकत्वात् , इष्यते च विशिष्टानतिरेकेऽपि विशिष्टथर्मावच्छिन्नप्रतियोगिता परैरपि, तद्वदिहापि शशीयत्वशृङ्गत्वोभयपर्याप्तावच्छेदकताकप्रतियोगिताकाभावाभ्युपगमे न काचिदनुपपत्तिः, वैज्ञानिकसम्बन्धेन शशीयत्वस्यापि प्रतियोगिवृत्तित्वाद्विशिष्टनिषेधव्यवहारे परं विशिष्टप्रतियोगिप्रतिपत्तये विकल्परूपा खण्डशः प्रसिद्धिरुपेयते, एतेन भाववदभावो न सप्रतियोगिकः, किन्तु तव्यवहार इत्ययमपि नयपक्षोऽनुगृहीतो भवति, सर्वत्र सर्वज्ञज्ञापकानुपलम्भे च नेयं गतिः, सर्वत्र किञ्चिज्ज्ञानस्यैव तद्रूपत्वात् , तस्य चात्यन्तमसम्भवादिति सर्व सुस्थम् । साधकानिर्णयादिति (४६-१-११) साधकत्वप्रकारकनिश्चयाभावात् सत्तायां बाधकत्वप्रकारकनिश्चयाभावाचासत्तायामनुत्कटकोटिकेतरांशे चोत्कटकोटिकारेका स्यादित्यर्थः। न साधकानिश्चयान्न वा बाधकानिश्चयात् संशयः, किन्तु ज्ञानप्रामाण्यसंशयादित्यन्ये, प्रकृतज्ञानेऽगृहीताप्रामाण्यकत्वस्यावश्यदेयत्वाद् गृहीताप्रामाण्यकस्य संशयकल्पत्वं, न तु प्रामाण्यसंशयादर्थसंशय इत्यपरे । ननु भवभृतां प्रभुः सर्वज्ञ एवेति कोऽयं विधिः शब्दब्रह्मपरमब्रह्माद्यभीष्टकतिपयार्थज्ञत्वेनैव भवभृत्प्रभुत्वसिद्धरनभिमतकीटसंख्यादिपरिज्ञानस्याकिञ्चित्करत्वादित्याशंकायामाह भाष्यकृत् 'न खल्विति' (४६-२-१) तथा च ज्ञानस्य सर्वविषयकत्वमात्मनश्च सर्वविषयकज्ञानवत्त्वं स्वभाव एवेत्याविर्भूतशुद्धस्वभावे भवेत्प्रभौ सर्वज्ञत्वमर्थसिद्धतयैवावर्जनीयमिति भावः। यं न क्रमेत (४६-२-१) यं नावगाहेत । तत्स्वभावान्तरनिषेधात् (४६-२-१) अज्ञत्वस्वभावनिषेधात्, नन्वन्त्रत्वमप्यात्मनः स्वभाव एव, ज्ञानाज्ञानोभयरूपस्यैवात्मनो भट्टैः स्वीकारात् , सुखमेहमस्वाप्सं न किञ्चिदवेदिषमिति परामर्शा For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy