________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
1465%A5A5%454544
शुकेन शिथिलायमानस्यानेन प्रामाण्यनिश्चये दृढं साधकत्वमित्यत्र तात्पर्यम् । तद्भाधकासम्भवाख्यं विश्वासनिवन्धनम् , प्रकृतेऽपि (४५-१-४) सर्वज्ञेऽपि, तदभावे (४५-१-४) बाधकासम्भवाभावे, मासिद्धयत् मा प्रापत् , तज्ज्ञापकोपलभ्भस्येति (४५-२-३) अभावप्रमाणवादिभट्टमतमुपन्यस्य दुषयिष्यन्निदमाह-न तु प्राभाकरं प्रत्ययं सङ्गरः, तस्याभावप्रमाणानभ्युपगन्तृत्वादिति द्रष्टव्यम् । अयं सर्वज्ञग्राहकप्रमाणाभावः स्वसम्बन्धी सर्वसम्बन्धी वा तदभावसाधक उपेयः । आद्य आह-सर्वत्राप्यप्रवृत्तित (४५-२-३) इति, स्वसम्बन्धिनस्तस्य स्वमात्रविश्रान्तत्वान्न सर्वत्र सर्वज्ञाभावसाधकत्वमिति भावः । अन्त्ये त्वाह-'गृहीत्वेत्यादि' (४५-२-३) तथा च सर्वसम्बन्धिनः सर्वज्ञग्राहकप्रमाणाभावस्य दुर्ज्ञानत्वान्न प्रकृताभावसाधकत्वमिति भावः । परोपगमत (४५-२-९) इति, स सर्वज्ञः (४५-२-१०) परोपगमतः (१५-२-१०) परसिद्धान्तेन सिद्धो नास्तीति यदि साध्यते मीमांसकेन, तदा स परोपगमः प्रमाणमप्रमाणं वेति विकल्पद्वयमुपतिष्ठते, आद्य आह-तस्येति तस्य परोपगमस्य प्रमाणत्वे व्याघातस्तदभावग्राहकस्य प्रमाणसिद्धस्यार्थस्य निषेद्धमशक्यत्वादिति भावः । अन्त्ये आह-'अन्यथेति' अन्यथा (४५-२-१०) परोपगमस्याप्रमाणत्वे, स सर्वज्ञः, अन्योन्यवादिप्रतिवादिनोः सिद्धोन वादिन एवासिद्धत्वात् , तथा च तस्य नास्तित्वमनुमानेन साधयितुमशक्यम् , धर्मिहेतुदृष्टान्ता उभयवादिसिद्धा वक्तव्या इति समयबन्धादिति भावः । अत्राह मीमांसक:-'नन्वेवमिति' (४५-२-१०) एवं परप्रमाणमात्रसिद्धस्यानिषेध्यत्वे, सर्वथैकान्तः परोपगमसिद्धः (४५-२-१०) कथं जैनर्निषिध्यते ? अत्रोत्तरम्, इति धीमतां न चोयं (४५-२-१०)न प्रष्टव्यम् , यतोऽनन्तधर्मात्मन्यर्थे प्रमाणाबाधिते सिद्धे तत्रैकान्ताभावसाधने न दोषः, अनेकान्तात्मज्ञानस्यैवैकान्तानुपलम्भ
For Private And Personal Use Only