SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri M a in Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir हिनुरोधेनात्मन एव बोधांशस्य प्रकाशस्य द्रव्यांशस्य चाशेषविज्ञानाभावरूपस्याप्रकाशस्य सुषुप्तौ जाग्रदवस्थायामपि मामहं न | जानामीत्यात्मनि कर्तरि भासमाने तदज्ञानानुभवेन द्विरूपताया अनपढ़वनीयत्वादित्याशयवान् शङ्कते-'कुतः पुनरित्यादि' (४६-२-२) यतोऽसावित्यादि क्रमेतैवेत्यन्तं (४६-२-२) अज्ञत्वस्वभावप्रतिषेधफलप्रदर्शनम् , अज्ञानस्वभावाभ्युपगमे तद्विषयानाक्रमणसम्भवात् तं सर्वमर्थ क्रमेतैवेत्यस्यानुपपत्तेः । स एव च प्रतिषेधः कुतः स्वभावद्वयेऽपि साधकस्याभिहितत्वादिति प्रश्नार्थः । चोदनाज्ञान एव त्वयाऽशेषविषयत्वोपगमात् तदृष्टान्तेनात्मनः सर्वज्ञत्वस्वभावसिद्धौ तद्विप्रतिषेधान्नाजस्वभावत्वं कल्पनीयम् , मां न जानामीत्यस्य विशेषज्ञानाभावपरत्वेनाप्युपपत्तेः, रूपिद्रव्येऽरूपस्येव चिद्रव्येऽप्रकाशस्य द्रव्यांशस्याभ्युपगन्तुमशक्यत्वात् , एतेन वेदान्तिनां भावरूपाज्ञानवादोऽपि निरस्तः, तादृशस्यापि तस्य ज्ञानविरुद्धत्वात् , समवायतदितरप्रत्यासत्तिभ्यां ज्ञानाज्ञानयोर्विरोधनिराकरणे च कर्मण एवाज्ञाननामपर्यवसानात् , कर्मकृतेन चाज्ञानेन चिद्विवर्तेन त्रैकालिकस्यात्मनो ज्ञस्वाभाव्यस्याप्रतिघातादित्युत्तरग्रन्थार्थः । 'कथमेवमिति' (४६-२-७) सर्वज्ञस्वभावत्वेह्यात्मनः कदाचिदप्यज्ञानोदयो दुर्घट इत्ययं प्रश्नः । मिथ्यात्वमोहनीयकर्मोदयसध्रीचीनकेवलज्ञानावरणप्रतिबद्धाशेषज्ञस्वभावत्वप्रतिबन्धकज्ञानावरणकर्मोदयमहिम्ना तत्सिद्धिरित्याशयेनोत्तरमाह-उच्यन्त इत्यादिना, सम्बन्ध्यन्तरं (४६-२-८) क्षीरनीरन्यायेन स्वभिन्न स्वसम्बन्धि, मोहोदयकारणकं (४६-२-८) मोहोदयकारणं, कप्रत्ययः स्वार्थे, बहुव्रीहौ पृष्टाज्ञानकारणाप्राप्तावुत्तरवैफल्यापत्तेः, वक्ष्यमाणानुमानविरोधाच्चेति द्रष्टव्यम्। 'अनन्तार्थव्यञ्जनपर्यायात्मकमिति' (४६-२-१२) अत्रार्थव्यञ्जनपर्यायलक्षणविवेकार्थमयं श्लोकः “ स्थूलो व्यञ्जनपर्यायो, वा गम्यो नश्वरः स्थिरः । सूक्ष्मः प्रतिक्षणध्वंसी, For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy