________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
तुमाह-प्रमात्रादीति' (४२-१-८) तथा च प्रमात्राद्यनेकस्वभावत्वेनानेकान्तात्मनोऽनेकान्तात्मकबाह्याभ्यन्तरार्थग्राहकत्वेनानुभूयमानस्य प्रमाणस्य बलात् संविदद्वैताद्यकान्ताभावसिद्धिरिति भावः । 'भूतवादिभिरिति' (४२-१-९) भूतवादिभिश्चार्वाकैस्तस्याः स्वप्रमायाः खसंविदितत्वोपगमात् , तत्पक्षे च निरंशत्वेन स्वेनैव स्वप्रमायोगात् , प्रमाणप्रमेयस्वभावव्यावृत्तौ च प्रमाया व्यावृत्तेरित्यर्थः । तदाह-इति सिद्धा तत्र स्वप्रमाया व्यावृत्तिरिति (४२-१-१०) कश्चित्तु तस्येन्द्रियजप्रत्यक्षस्यास्वसंविदितत्वोपगमादिति ब्याचष्टे, हेतुं च तत्र भूतचतुष्टयोत्पन्नत्वादिति पूरयति, तदनेकग्रन्थविरुद्धं, चार्वाकमते उत्पत्तिपक्षेऽभिव्यक्तिपक्षे वा ज्ञानस्य स्वसंविदितताया एवानेकग्रन्थसिद्धत्वात् , 'कारणगुणा ही त्यादिन्यायस्तु
भूतचैतन्यमेवोच्छिन्देत् , न तु तस्यास्वसंविदितत्वं साधयेदिति तदभ्युपगमाननुकूल एव, न च मदिरादिदृष्टान्तेन संयोगजज्ञाNI नवादेऽस्य न्यायस्यावकाशोऽपीति यत्किश्चिदेतत् , एतेन (४२-१-११) चार्वाकमतनिराकरणे स्याद्वादाश्रयणपर्यवसानेन,
तेषां सर्वप्रमाणविनिवृत्तिरिति, करणफलभावेनाप्यन्ततः स्वभावभेदध्रौव्यादित्यर्थः । तेषामपीत्यनन्तरं सर्वप्रमाणविनिवृत्तिरित्यनुपज्यते । एकोपयोगरूपेणानन्वये कारणफलभावस्यैवाभावादिति भावः; सर्वेषामेकान्तवादिनां प्रमाणलक्षणानुपपत्ती | साधारणमेकं हेतुमाह-'प्रत्यक्षादीत्यादि ' ( ४२-२-२) 'वागक्षेत्यादि ' भाष्यं-बागक्षबुद्धीच्छापुरुषत्वादिकं (४२-२-४) कर्तृ, क्वचित् एकान्तवादिभिरभिमते, सर्वज्ञे वादिबाहुल्येऽप्यपकर्षद्योतकमेकवचनम्, अनाबिलज्ञानं (४२-२-४) निरावरणज्ञान, निराकरोति, अनुमितिनिश्चयाभावप्रतियोगि करोति, तत्र तदभावमनुमापयतीत्यर्थः, अविशि|ष्टवागादेरेव तदभिमतवृत्तित्वात्तस्य च निरावरणज्ञानाभावव्याप्यत्वादिति भावः । न पुनस्तत्प्रतिषेधवादिषु (४२-२-४)
For Private And Personal Use Only