________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्री एकान्तनिराकरणवादिषु जैनाभिमतेषु सर्वज्ञेषु वाद्येकत्वेऽप्युत्कर्षद्योतकं बहुवचनं, तथा वागादिकमनाविलज्ञानं निराकरोति,
|परिच्छेद विवरणम् ॥ विशिष्टस्यैव तस्य जैनाभिमतसर्वज्ञवृत्तित्वात् , तस्य चानाविलज्ञानव्याप्यत्वादिति भावः । इति एतत्, परमगहनं
| प्रथमः॥ (४२-२-५) दुर्बोधम् , अतात्पर्यज्ञानामिति शेषः । तात्पर्यज्ञास्तु 'वागक्षेत्यादि' धर्मिभेदेन विशिष्टाविशिष्टपरतया ॥८२॥
योजयन्त आवृत्तावप्युद्देश्याथै क्येनैकवाक्यतां च समर्थयन्तो न गहनमनुप्रविशन्तीति ध्येयम् । अत्र चैकान्तवादित्वावच्छेदेनाविशिष्टवागादिनाऽनाबिलज्ञानाभावः साध्यमानस्तदभिमते सर्वक्षेपि सिद्ध्यत्यनेकान्तवादित्वसामानाधिकरण्येन च विशिष्टवागादिना साध्यमानमनाविलज्ञानं जैनाभिमतसर्वज्ञे सिद्ध्यति शृङ्गग्राहिकया सर्वज्ञप्रसिद्धेर्दुष्करत्वादित्यभिप्रायवान् विवृणोति-'तथाहीत्यादि' (४२-२-५) भाष्ये कः परमात्मेति (४२-२-११) तात्पर्यविवरणम् , आत्मत्वस्यैवैकपद
शक्यतावच्छेदकत्वात् । चिदेवेति (४२-२-११) घटो नील एवेत्यत्रेव सर्वावच्छेदेन विशेषणसम्बन्धस्यैवकारार्थत्वात् , 13 & सर्वविषयावच्छिन्नज्ञानवानित्यर्थः । लब्ध्युपयोगेत्यादि ( ४२-२-११ ) तत्त्वे नियामकाभिधानं भवभृतां (भवतां)
प्रभुरिति (४२-२-११) भवं यन्तीति विपि भवतो भवभृतस्तेषां गुरुः प्रभुरिति कारिकावयवव्युत्पत्तिस्वारस्यादुक्तं
वृत्तौ चिदेव ज्ञ एवेति (४२-२-१४) एतावताऽज्ञत्वव्यवच्छेद एव लभ्यते, न तु सर्वावच्छेदेन ज्ञत्वमिति तल्लाभार्थिना दामदुक्तव्याख्यैवानुसरणीया । चिदिति शब्दस्ये (४२-२-१४) त्याद्यभिधानं तु प्रौढ्यैवेति मन्तव्यम् , चिच्छब्दस्य केवल
ज्ञाने मुख्यवृत्तेर्नयविशेषोपग्रहं विनाऽग्रहात् , फलितार्थलाभे प्रकारस्य चोक्तत्वात् , इन्द्रियसंस्कारानुरोधत एवेति (४३-१-२) इन्द्रियव्यापारानुसारेणैवेत्यर्थः । इन्द्रियव्यापारश्च शब्द रूपे रसगन्धस्पर्शेषु च स्पृष्टताऽस्पृष्टताबद्धस्पृष्टतारूपो द्रष्टव्यः । अन्यथा ॥८२॥
ACC
RRRR
For Private And Personal Use Only