________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
परिच्छेदः प्रथमः॥
अष्टसहस्री फलीभूतमूहवैचित्र्यमभ्युपगन्तव्यम् , यतःसर्वोपसंहारेण व्याप्त्यादिग्रहः, नो चेत्, सामान्यप्रत्यासच्या यावदाश्रयोपस्थित्यभ्युपविवरणम् ॥
गमेऽपि यावत्वेनोपस्थितिः कुतः, नहि धूमत्वमेव धूमनिष्ठं यावत्वं, धूमवान् यावभूमवानित्यनयोरविशेषप्रसङ्गात् , तथा च
यावान् धूमस्तावान् वहिजन्मेत्यर्थप्रतिपत्तये ऊप्रमाणमेव शरणं, सामान्यव्यभिचारानुपस्थितिसहकारेण विशेषसहचार॥८ ॥
ज्ञानस्य यावद्धेतौ यावत्साध्यव्याप्तिनिश्चायकत्वमपि तत्त्वेन ग्रहं विनाऽसम्भवदुक्तिकं, तद्ग्रहे चोहप्रमाणं विना नान्यस्य व्यापार इत्याद्यन्यदपि विभावनीयमवहितमानसः, “सामान्यलक्षणप्रत्यासत्तिप्रत्यर्थिनिर्जयात् । एवमूहप्रमाणस्य राज्यं निष्कण्टकं स्थितम्" ॥१॥ अथ प्रकृतम् , एवं तीर्थकृत्समयानां परस्परविरोधेन भ्रमजनकतयाप्तत्वाभावं प्रसाध्य स्वस्ववासनयाविरोधाभ्युपगमेऽपि प्रमाजनकत्वाभावेन तं प्रसाधयितुमाह- यदि पुनरित्यादिना ' (४२-१-१) संविदद्वैतादीनामिति (४२-१-२) अत्रादिपदेन चित्राद्वैतपरब्रह्माद्वैतशब्दब्रह्माद्वैतपरिग्रहः, अन्यत्र वेति (४२-१-६) चित्राद्वैतादिपक्षे चेत्यर्थः, 'निरंशत्वादिति' (४२-१-७) अंशरहितस्यैकस्य ग्राह्य ग्राहकभावाभावेन न स्वेनैव
स्वप्रमेत्यर्थः । स्वप्रकाशत्वात्तत्र प्रमात्वं सेत्स्यतीत्यत आह-'प्रमाणेत्यादि' (४२-१-७) तथा च प्रमात्वव्यापकप्रमाWणप्रमेयस्वभावाभावे तत्र प्रमात्वाभाव इति भावः । व्याप्याभावाभावे व्यापकाभावादनेकान्तसिद्धौ परमतभङ्गप्रसङ्ग इत्याह
'तदव्यावृत्ताविति' (४२-१-७) तस्याः प्रमाया अव्यावृत्तावनिषेधे, ऐकान्तिकत्वाभावादिति (४२-१-८) अनेकान्तप्रसङ्गादित्यर्थः, तथा च " नान्योऽनुभाव्यो बुद्ध्याऽस्ति, तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात् , स्वयं सैवावतिष्ठते" ॥१॥ इति धर्मकीर्युक्तं विप्लवेतेति भावः । परं प्रति प्रसञ्जितमैकान्तिकत्वाभावं स्वातश्येणापि साधयि
NEKHABAR
॥८१॥
For Private And Personal Use Only