________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
CHEC%A5%
2
निरस्तम् , तत्तत्प्रत्यक्षविषयतायाः कारणतावच्छेदकसम्बन्धेन सन्निकर्षाश्रयत्वनियमस्य चक्षुरप्राप्यकारितावादिभिरस्माभिरनभ्युपगमात् , तदनुरोधेन सामान्यप्रत्यासत्तेः पृथकारणत्वे मानाभावात् , घटत्वादिप्रकारतानिरूपितमुख्यविशेष्यताशालिप्रत्यक्षत्वस्य घटत्वादिसामान्यलक्षणाजन्यतावच्छेदकत्वे यो धूमवान् सोऽग्निमानित्यत्र तादात्म्येन व्याप्तिग्रहोच्छेदापत्तेः, धूमत्वसामान्यलक्षणया धूमवदुपसर्जनीभूतसकलधूमग्रहायोगाध्धूमव्यक्तीनां च पृथगननुगतत्वेन ज्ञायमानधूमसामान्यवत्तया सकलधूमवदुपस्थित्ययोगात् , परम्परासम्बन्धेन धूमत्वसामान्यभानस्वीकारे च यो धूमत्ववानिति प्रयोगापत्तेः, न च प्रत्यक्षत्वं सामान्यप्रत्यासत्तिजन्यतावच्छेदकं कार्याकार्यवृत्तित्वादित्यानेडितमेव, तस्मात् सामान्यावच्छिन्नविशेषविषयकप्रत्यक्षादौ सामान्यावच्छिन्नविशेषालम्बनस्य विशेषावच्छिन्नसामान्यविषयकप्रत्यक्षादौ विशेषावच्छिन्नसामान्यालम्बनस्योहस्य हेतुत्वमव- 1
श्यमेष्टव्यमिति, तत एव कार्यसिद्धेः किं सामान्यघटितसामग्रीव्याप्तौ घटत्वप्रकारतानिरूपितलौकिकप्रत्यक्षसामग्र्यादेदोषविशे&ा पादेरुपनीतभानसामग्यादेश्च निवेशेनाप्रामाणिकगौरवकारिणा, स्ववृत्तिप्रतियोगिकत्वसम्बन्धेनेत्यादिकल्पे तु लाघवात् घटत्व
प्रकारकज्ञानत्वावच्छिन्नं प्रति स्ववृत्तियोगिताकत्वसम्बन्धेन कृतिविशिष्टप्राग्भावस्य स्वप्रतियोग्युपयोगसम्बन्धेनैव हेतुत्वमुचितमलं मानसान्यत्वादेः कार्यतावच्छेदककोटौ निवेशेन, सामान्याश्रयलौकिकप्रत्यक्षसामय्यभावेऽपि सामान्येनोत्सगतो यावद्विशेषाश्रयेण भवितव्यमित्युहकाले यावत्सामान्याश्रयज्ञानस्य सर्वसिद्धत्वात् , वस्तुत ऊह इत्यादिप्रतीतिसिद्धवैजात्यशालिज्ञाने स्वप्रयोज्यविजातीयोपयोगसम्बन्धेन सामान्यप्रत्यासत्यादिस्थानीयतत्तद्विचाराणां हेतुत्वान्न काचिदनुपपत्तिः, घटादौ चरमसंयोगस्येव ज्ञाने विजातीयोपयोगस्य चरमकारणत्वाद्वा, अन्यहेतूनां तद्द्वारकतयैव हेतुत्वोपगमादिति, इत्थं चैतदवश्यं तत्तद्विचार
58
For Private And Personal Use Only