________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shet Kailassagersuri Gyanmandie
अष्टसहस्री विवरणम्॥ ॥८ ॥
परिच्छेदः | प्रथमः॥
दिचक्षुःसंयोगादिकाले विनव घटचक्षुःसंयोगादिकं तज्जन्यतावच्छेदकीभूतघटादिप्रकारकचाक्षुषत्वाद्यवच्छिन्नापत्तेः । अथ तत्तद्घटादिवृत्तिविषयतासम्बन्धेन ज्ञानत्वावच्छिन्नं प्रति तादृशसम्बन्धेनेश्वरज्ञानसाधारणज्ञानत्वेन हेतुता कल्प्यते, तथा च घटवृत्तिविषयत्वसमवायादिरूपकार्यतावच्छेदकप्रत्यासत्तिघटितसामानाधिकरण्यसम्बन्धेन तादृशज्ञानविशिष्टचक्षुःसंयोगाद्यात्मकविषयवृत्तिसामग्रीसमवहितघटाभावचाक्षुषाद्यभावस्यैव घटचाक्षुषत्वादिरूपकार्यतावच्छेदकावच्छिन्नव्याप्यत्वमभ्युपेयते, पटचक्षुःसंयोगादीनां च घटवृत्तिविषयतासम्बन्धेन ज्ञानाधिकरणेऽवृत्तेर्न तत्समवहितबाधाभावादिबलाद् घटचाक्षुषाद्यापत्तिरिति चेत् , तुल्यं प्रकृतेऽपि, न च पटे घटत्वभ्रमजनकदोषसध्रीचीनपटचक्षुःसंयोगकाले घटत्वसामान्यलक्षणाजन्यचाक्षुषोदयात् पटादिवृत्तिविषयतासमवायघटितसामानाधिकरण्यसम्बन्धेन ज्ञानविशिष्टचक्षुःसंयोगाद्यात्मकसामग्रीसमवहितघटत्वज्ञानस्यापि फलव्याप्यत्वोपगमधौव्याद्दोषादिविरहकालेऽपि ततो घटत्वसामान्यलक्षणाजन्यज्ञानापत्तिः, तादृशस्थले दोपस्यापि निवेशात् , न चैवं घटत्वाद्येकैकसामान्यलक्षणप्रत्यासत्तिघटितसामग्रीव्याप्तेरेव घटपटादिभेदेनानन्त्याद् गौरवमिति वाच्यं, तादृशगौरवस्य गत्यन्तराभावेनाकिश्चित्करत्वात् , यद्वा, स्ववृत्तिप्रतियोगिकत्वसम्बन्धेन कृतिविशिष्टघटत्वप्रकारतानिरूपितलौकिकविषयताशालिप्रत्यक्षप्रागभावत्वेन घटत्वादिप्रकारतानिरूपितमुख्यविशेष्यताशालिमानसान्यप्रत्यक्षं प्रति हेतुतात्मनिष्ठप्रत्यासत्त्या कल्प्यते, घटो नास्तीत्यादिप्रत्यक्षे व्यभिचारवारणाय मुख्यविशेष्यताया घट इत्याकारकमानसे च तद्वारणाय मानसान्यत्वस्य निवेशः । तादृशसम्बन्धेन कृतिविशिष्टश्चोक्तप्रागभावः प्रतियोग्यव्यवहितप्राकक्षण एव वर्तत इति नातिप्रसङ्गः, इत्थं चैकात्मवृत्तित्वसम्बन्धेन तादृशप्रागभावविशिष्टघटत्वज्ञानत्वाद्यवच्छेदेन फलनिरूपितकैकव्याप्तिरेवाभ्युपेयत इति न गौरवमित्यादि
M
॥८
॥
For Private And Personal Use Only