SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ॐSHREE प्रत्यक्षत्वावच्छिन्ने विषयतया ज्ञानत्वेन ज्ञानप्रत्यासत्तेर्हेतुत्वकल्पनमावश्यकम् , न च निर्विकल्पकसाधारणप्रत्यासत्तिमते सामान्यलक्षणाया हेतुत्वे तत्पुरुपीयत्वं न निवेश्यते, विशेषणज्ञानविरहेणैवाऽन्यदीयघटज्ञानाद् घटत्वेन घटप्रत्यक्षवारणसम्भवात् , इत्थं च घटो नास्तीत्यादावन्तत ईश्वरीयघटत्वादिवृत्तिधर्मज्ञानादेवोपपत्तौ किं ज्ञानप्रत्यासत्तिकल्पनया, सामान्यज्ञानहेतुतायां तत्पुरुषीयत्वादिनिवेशे व्यभिचारविरहेण सामान्यप्रकारकत्वस्य जन्यतावच्छेदककुक्षावप्रवेशात् , सामान्यप्रत्यासत्तिजन्ये घटत्वाचं घटत्वादिवृत्तिसामान्यधर्माप्रकारकत्वेऽपि दोषाभावादिति वाच्यम् , सामान्यलक्षणायाः फलजनने तत्तत्सामान्यप्रकारकप्रत्यक्षजनकसामग्र्यन्तरस्य सहकारित्वाभ्युपगमादुपदर्शितस्थले घटत्वादिवृत्तिसामान्यप्रकारकप्रत्यक्षजनकसामग्रीविरहेण घटत्वादिभानस्य सामान्यलक्षणयाऽनुपपत्तेर्ज्ञानलक्षणायाः पृथक्कारणत्वावश्यकत्वात् , इत्थमेव घटोपस्थितिशून्यकाले घटत्वविशेष्यकज्ञानान घटत्वेन घटमुख्यविशेष्यक मानसमित्युपपद्यते, यत्तु उपदर्शितनियमानुरोधेन विषयतया प्रत्यक्षत्वावच्छिन्ने स्वविषयधर्मवत्त्वसम्बन्धेन विषयतासम्बन्धेन वा ईश्वरज्ञानसाधारणेन ज्ञानत्वेनैकमेव हेतुत्वं, न चैवं घटत्वज्ञानदशायां तदनाश्रयप्रत्यक्षापतिः, घटत्वेन तद्भानस्य दोषविरहेणानापत्तः, सति दोपे चेष्टत्वात् , तदनाश्रयवृत्तिधर्मप्रकारकज्ञानस्य च तादृशविशेषज्ञानसाध्यस्य तद्विरहेणैवायोगादिति, तन्न, उपदर्शितैकहेतुहेतुमद्भावे घटत्वाद्यात्मकयत्किश्चिद्विशेषणज्ञानसहकृतस्यैव सामान्यज्ञानस्य फलव्याप्यत्वेन यत्किश्चित्सामान्यज्ञानदशायां प्रमेयमात्रे विषयतया प्रत्यक्षापत्तेर्दुरित्वात् , सामान्यभेदेन विशिष्य हेतुत्वे च तत्सामान्यज्ञानात्तदनाश्रयप्रत्यक्षानापत्तेः, ईश्वरीयप्रमेयत्वादिसामान्यज्ञानात्तद्ज्ञानशून्यस्य च यत्किश्चिद्व्यतिरेकिसामान्यज्ञानवतो विश्वविषयकप्रत्यक्षापत्तेच, प्रमेयत्वादिसामान्यलक्षणायाः RSSCLACK-6-15 For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy