SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir TIME अष्टसहस्री विवरणम् । ॥७९॥ परिच्छेद: प्रथमः॥ फलजनने प्रमेयस्वादिरूपविशेषणज्ञानस्यैव सहकारित्वेन निरसनीयत्वादिति, घटत्वादिना यत्किश्चिद्धर्मिभासकलौकिकसन्निकर्यादिशून्यकाले घटत्वादिसामान्यलक्षणाजन्यप्रत्यक्षानुदयात्तत्तत्सामान्यधर्मप्रकारेण यत्किश्चिद्धर्मिविषयकप्रत्यक्षजनकसामग्र्यन्तरस्य सामान्यलक्षणासहकारित्वं स्वीकरणीयम् , तच्च लौकिकप्रत्यक्षसामग्री उपनीतभानसामग्री च, तयोश्च प्रत्येकं सहकारिता बोध्या, सा च तजन्यतावच्छेदकसमानाधिकरणजन्यतावच्छेदकत्वरूपा, न चैवं क्वचिदापत्तिः सम्भवति, यतः तद्धावच्छित्रयत्किचियक्तिनिष्ठकार्यतानिलपितकारणतावच्छेदकीभूता यावन्तो धर्माः प्रत्येकं तदवच्छिन्नस्तोमात्मकसामग्यास्तधर्मावच्छिनापादकत्वात् , घटस्वाश्रयस्य यस्य कस्यचिल्लौकिकसामग्र्युपनीतभानसामग्र्योरसत्योश्च तादृशसामय्येव नास्ति, घटत्वप्रकारकप्रत्यक्षत्वावच्छिमस्य घटत्वादिप्रकारतानिरूपितलौकिकविषयताशालितया घटत्वादिनोपनीतयकिश्चिद्धर्मिविषयतया च द्विविधत्वाब, यत्किञ्चिदित्यनेन प्रथमोपादाने तनिष्ठकार्यतानिरूपितकारणतावच्छेदकावच्छिन्नस्तोमात्मकलौकिकसविकदिरन्त्यस्य चोपादाने तविष्ठकार्यतानिरूपितकारणतावच्छेदकावच्छिन्नोपनायकज्ञानादेरभावेन तत्र तद्घटिततादृशस्तोमाभाव इति न काचिदनुपपत्तिः । अथ घटो नास्ति सुरभि चन्दनमित्यादौ यावद्घटसौरभादिभानापत्तिः, यावद्घटादिविषयकप्रत्यक्षत्वस्य सामान्यज्ञानजन्यतानवच्छेदकत्वेन तदवच्छिन्नापत्तेः कर्तुमशक्यत्वेऽपि सामान्यप्रत्यासत्तिवलादर्थतो यावद्घटविषयकप्रत्यक्षापत्तेर्दुवारत्वात् , घटत्वेन यत्किश्चिद्विषयकलौकिकप्रत्यक्षसामग्रीदशायां यावन्तो घटा भासन्ते न तु घटो नास्तीत्यादावित्यत्र नियामकस्यावश्यवक्तव्यत्वाच्चेति चेत्, न । घटत्वादिप्रकारतानिरूपितमुख्यविशेष्यताशालिप्रत्यक्षत्वस्य घटत्वादिसामान्यलक्षणाजन्यतावच्छेदकत्वे दोषाभावात् , तदवच्छिन्नफलस्य बहिरिन्द्रियजस्य मानसस्य वा द्विविधस्यापि घट इत्या ॥७९॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy