SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir अष्टसहस्त्री विवरणम् ॥ |परिच्छेदः प्रथमः॥ ॥७८॥ त्तदापत्तिः, तजन्यफलस्य सामान्यज्ञानजन्यतावच्छेदकाक्रान्ततया सामान्यज्ञानं विना तदापत्त्यसम्भवादिति, अत्राप्ययमस्माकं मनीषोन्मेषः, यावसामान्याश्रयज्ञाने बाधाभावसामान्यज्ञानयोर्नियमतः सहकारित्वे कल्पनीये सर्वत्र प्रमाणे बाधाभावमुखप्रेक्षिणि तदपेक्षा स्यात् , न चैवमभ्युपगमः, किन्तु सर्वप्रमाणानां सामान्यविषयत्वमुत्सर्गतः स्वसामग्रीबलायातमित्येवाभ्युपगम इति । तस्माम् सामान्यज्ञानं यद्यकव्यक्तिविषयं स्याद्वाधाभावेन यावद्भ्यक्तिविषयं स्यादित्यूहात्मकमेव यावत्सामान्याश्रयज्ञानमङ्गीकर्तुं युक्तम् , तेनैव व्याप्तिशक्तियोग्यताकासादिज्ञानानां सामान्यविषयत्वादनुमितिशाब्दादीनां सामान्यविषयत्वसङ्गतेाप्तिज्ञानादीनां तर्कानुग्राह्यत्वकल्पनापेक्षया तर्कत्वकल्पनायामेव लाघवात् , एवं सामान्याश्रयप्रत्यक्षत्वं न परमतेऽपि सामान्यज्ञानजन्यतावच्छेदक, तैरीश्वरप्रत्यक्षोपगमेन तत्र व्यभिचारात् , किन्तु सामान्याश्रयजन्यप्रत्यक्षत्वमिति, तदपेक्षया सामान्याश्रयतर्कत्वमेव तथा लाघवादित्यस्मन्मतमेव ज्याय इति बोध्यम् , तत्तत्सामान्याश्रयमूहं विना बाधाभावमात्रेण तद्वि| षयकभानोपगमे तु नियमेन सर्वत्रानन्तपर्यायभानापत्तिः, एतेनानुमितौ पक्षतावच्छेदकावच्छिन्नत्वं पक्षतावच्छेदकव्याप्तविषयताकत्वं बाधाभावमात्रादित्यपि निरस्तम्, ऊहव्यापारानुसारेणैव तत्र नियतविषयभानादन्यथातिप्रसङ्गात्परामर्शेऽपि तद्भाने कारणस्य मृग्यत्वादिति दिग् । एतेन यदि च तत्तत्प्रत्यक्षविषयतायाः कारणतावच्छेदकसम्बन्धेन सन्त्रिकर्षाश्रयत्वनियतत्वं प्रामाणिकं तदा ज्ञानप्रत्यासत्तिसामान्यप्रत्यासत्त्योः पृथक्कार्यकारणभावकल्पनमावश्यकं, तथाहि-एतन्मते सामान्यलक्षणायाः स्वविषयीभूततत्तत्सामान्यवत्त्वप्रत्यासत्या ज्ञानत्वेन तत्तत्सामान्याश्रयवृत्तिविषयतया प्रत्यक्षत्वावच्छिन्ने हेतुता कल्प्या, तथा च घटो नास्ति सुरभि चन्दनमित्यादौ घटत्वसौरभत्ववृत्तिधर्मज्ञानाभावेन सामान्यलक्षणया तद्भानानुपपत्तेलौकिकान्यविषयतया For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy