________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
निर्वाहादिति वाच्यम्, रजतत्वसामान्यलक्षणाया रजतत्वाश्रयप्रत्यक्षं प्रत्येव हेतुत्वेऽपि शुक्तेरपि वैज्ञानिकसम्बन्धेन रजतत्वाश्रयत्वात् तद्वलादेव तद्भानोपपत्तेः, वस्तुतो दोपादिरूपकारणवलादेव तत्र शुक्तिभानमिति न तदनुरोधेन ज्ञानप्रत्यासचिहेतुताकल्पनं, न चैवं रजतत्वज्ञाने शुक्तेरज्ञानेऽपि दोषादिलात् तादृशोऽपनीतभानापत्तिः, दोषस्य फलबलकल्प्यतया फलाभावेन तत्र दोषाकल्पनात् । न च ज्ञानलक्षणायाः पृथगहेतुत्वे घटत्वविशेष्यकज्ञानदशायां घटज्ञानाद्यसत्त्वेऽपि घटत्वादिना घटादिमुख्यविशेष्यकमानसोपनीतभानापत्तिः, घटत्वादिसामान्यलक्षणायाः किञ्चिदंशे घटत्वादिप्रकारकज्ञानसामय्यन्तरसहकृताया एव फलहेतुत्वेन तत्र तञ्जन्यज्ञानमादायेष्टापत्तेः कर्तुमशक्यत्वादिति वाच्यम् । एवमपि लौकिकान्यतद्विषयताशालिज्ञानत्वावच्छिन्नम्प्रति तद्विषयकज्ञानत्वेनैकहेतुताकल्पनेनैवोपपत्तौ ज्ञानप्रत्यासत्तिसामान्यप्रत्यासन्त्योः पृथकारणत्वे मानाभावात् न च सामान्यप्रत्यासत्तिजन्याज्ञातसामान्याश्रयप्रत्यक्षे व्यभिचारः, अव्यवहितोत्तरत्वस्य कार्यतावच्छेककोटौ निवेशे तदभावात्, न च घटत्वाद्यंशे लौकिकयाबद्घटभानस्य लौकिकान्यघटत्वविषयताशून्यत्वेन तत्र घटत्वादिज्ञानस्य पृथग्धेतुत्वकल्पनमात्रश्यकम् एककारणतया निर्वाहाभावादिति वाच्यम् । तत्र घटत्वांशे द्विविधविषयतास्वीकारे दोषाभावात् अव्यवहितोत्तरत्वनिवेशेनैव लौकिकज्ञाने व्यभिचाराभावेन लौकिकान्यत्वानिवेशाद्वा, न चाज्ञातव्यक्तिभानाय सामान्याश्रयविषयतामन्तर्भाव्य सामान्यज्ञानस्य हेतुत्वान्तरमावश्यकमिति शङ्कयम्, सामान्यज्ञानजन्यतावच्छेदककोटौ सामान्याश्रयविषयताया अनिवेशेऽपि तत्तद्विषयकप्रत्यक्षेच्छाविरहविशिष्टविरोधिसामय्यभावजन्यतावच्छेदककोटौ तत्तत्सामान्याश्रयविषयतानिवेशात् तद्वलादेव सामान्यप्रत्यासत्तिजन्यज्ञानस्य निखिलसामान्याश्रयविषयकत्वोपपत्तेः न च सामान्यज्ञानशून्यकालेऽपि तादृशकारणबला
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir