________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एवं च प्रकृतग्रन्थेऽपि सुनिश्चितासम्भवद्वाधकत्वं सुनिश्चितो बाधकाभावस्तेन संवादकज्ञानवत्तोपलक्ष्यत इति तेनैव यथोक्तप्रामाण्यग्रह इत्यत्र तात्पर्यम् । क्वचिदभ्यासानभ्यासौ त्विति (४०-१-६) तथा चाभ्यासानभ्यासावदृष्टविशेषप्रयोज्यौ जातिविशेषावेव ज्ञानगतौ, विषयगतत्वं तु तयोरुपचारादिति मन्तव्यम्, तदिदमाह - "दृष्टादृष्टनिमित्तानां वैचित्र्यादिह देहिनाम् । जायते क्वचिदभ्यासोऽनभ्यासो वा कथंचन ॥ १ ॥ " इति ननु कूटस्थ नित्यस्यात्मनोऽभ्यासानभ्यास स्वभावत्वं कथं घटेतेति साख्याशंकायामाह पूर्वापरेत्यादि ( ४० - १ - ८ ) परिणामित्वादात्मन उभयस्वभावत्वं न दुर्घटम्, कूटस्थनित्यश्रुतेर्नयविशेषविषयत्वादात्मान्यद्रव्यत्वस्य परिणामित्वव्याप्यत्वकल्पनापेक्षया द्रव्यत्वस्यैव तत्कल्पने लाघवात्, अहं बालो भूत्वा युवा जात इत्याद्यनुभवस्य सार्वजनीनस्य तत्साधकस्य जागरूकत्वाच्चेति भावः । सर्वस्य संवेदनस्य स्यात् स्वतः स्यात्परत (४०-२-६) इति, अत्र पद्ये "कतिपयकणानुत्वा नीरावसिक्तमृदि श्रमाद् धुरि सुमहतो बीजावीजे विदन्ति कृषीबलाः । तदनु कलितात् साधर्म्यात्तद्विधामनुमिन्वते, तदुपरि परिस्पष्टाभ्यासाद् विनाप्यनुमाश्रयम् ॥ १ ॥ तथाभ्यासे स्वतो ज्ञेयं, प्रामाण्यमितरत्तथा | अनभ्यासे तु परतो, ज्ञप्तौ यत्नो यथोचितः " इति ॥ २ ॥ ये तु नैयायिकमीमांसका विशेष्यावृत्त्यप्रकारकत्वादिकं चानाविधं प्रवृत्यनौपयिकं प्रामाण्यमवगणय्य व्यवहारोपयोगिनस्तद्वति तत्प्रकारकत्वस्यैव ज्ञानगतप्रामाण्यस्य स्वतस्त्वपरतस्त्वयोर्विविधं विप्रतिपद्यत्ते, तेषामियं विप्रतिपत्तिः, ज्ञानप्रामाण्यं तदप्रामाण्या ग्राहकयावद्ज्ञानग्राहकसामग्रीग्रां नवेति, अत्र सकलानुगतस्यैकस्य प्रामाण्यस्याभावाद् घटज्ञानप्रामाण्यस्य पटज्ञानग्राहकेणाग्रहाच्च घटत्ववति घटत्वप्रकारकत्वादिकं तदप्रामाण्याग्राहकस्वाश्रयग्रहत्वव्यापकविषयताकं नवेति तदर्थः । प्रमेयत्वादिना व्यापकताया अतिप्रसञ्जकत्वात्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir