________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।।
॥ ७१ ॥
www.kobatirth.org
घटत्ववति घटत्वप्रकारकत्वादिविषयतात्वेन व्यापकत्वस्य च सिद्धसिद्धिभ्यां व्याघाताद्यथाश्रुतानुपपत्तेश्च घटत्ववति घटत्वप्रकारकत्वविषयतात्वं निरुक्तव्यापकतावच्छेदकं नवेत्यत्रास्यापि तात्पर्यं दृष्टव्यम् । विधिकोटि मीमांसकानां निषेधकोटिनँयायिकानाम्, तत्र मीमांसकास्त्रयः प्राभाकर भट्टमुरारिभेदात्, प्राभाकरमते स्वाश्रयग्राहकेण यावता स्वेनैव प्रामाण्यं गृह्यते, भट्टमते ज्ञाततालिङ्गकानुमित्या, मुरारिमिश्रमतेऽनुव्यवसायेनेति, त्रितयसाधारण्येनायं विप्रतिपच्युल्लेखः, स्वतस्त्वसाधकं चैषां परतोऽग्राह्यत्वे सति ग्राह्यत्वमेव । नैयायिकास्तु ज्ञानस्य चक्षुराद्ययोग्यत्वाच्चाक्षुषादिज्ञाने तस्याविषयत्वात् स्वप्रकाशत्वमेव नास्तीति कुतः स्वेन स्वप्रामाण्यग्रह इति गुरुमतमयुक्तम्, भट्टमतेऽपि ज्ञाततया ज्ञानानुमितिर्जायमाना कथं तत्प्रामाण्यं विषयीकुरुताम्, तस्या ज्ञानमात्रेण समं व्याप्तिग्रहात्ततो ज्ञानमात्रस्यैव सिद्धेः, प्रमात्वावच्छिन्नेन च समं व्यायिग्रहात्त - द्रूपावच्छिन्नासिद्धेः, व्यापकतावच्छेदकरूपेणैवानुमितौ साध्यभानस्वीकारात्, अन्यथा धूमाद्रव्यत्वदीपत्वादिनाऽपि दहन - सिद्धयापत्तेः, मुरारिमिश्रनये तु यद्यपि प्रामाण्यं प्रथमानुव्यवसायेनैव सुग्रहं घटघटत्वयोर्व्यवसायोपनीतयोर्विशेष्यितायाः प्रकारितायाश्च ज्ञाने मनसैव ग्रहसम्भवादुपनय सहकारेण मनसो बहिरर्थेऽपि प्रकाशसामर्थ्यात्, अन्यथा कविकाव्यमूलज्ञानानुपपत्तेः, तथापि नैतावदेव प्रामाण्यं घटत्ववच्त्वे सति घटवत्त्वेन तदव्यवहारात्, किन्तु तद्वद्विशेष्यकत्वविशिष्टं तत्प्रकारकत्वम्, न च तद्वद्विशेष्यकत्ववैशिष्ट्यमनुव्यवसायो ग्रहीतुमर्हति तद्वद्विशेष्यकत्वस्य पूर्वमनुपस्थितेः संसर्गतयैव विशेष्यताप्रकारताभानात्, स्वरूपतो वा नृसिंहाकारमर्यादया तत्र तद्भानात् किञ्चैतदपि न प्रामाण्यं, वह्निगुञ्जयोर्गुञ्जावी इति भ्रमेऽतिव्याप्तेः अस्ति हि तत्र वह्निविशेष्यकत्वं वह्नित्वप्रकारकत्वं च, किन्तु तद्वद्विशेष्यकत्वावच्छेदेन तत्प्रकारकत्वम्,
न
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः
प्रथमः ॥
॥ ७१ ॥