________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥ ॥७ ॥
परिच्छेदः प्रथमः॥
--
-
ङ्गादित्यतीन्द्रियादुष्टतादिघटितादुष्टकारकसन्देहोत्पाद्यत्वादेस्त्याग इति चेत् , तीसन्निकृष्टसर्वदेशकालगर्भमसम्भवद्भाधकत्वमपि प्रामाण्यं त्यज्यताम् , तस्य स्वप्रकाशमहिम्ना स्वाश्रयाग्राह्यत्वादिति चेत् , अत्रायमस्माकमाकरग्रन्थः, "ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम् , तदितरत्वप्रामाण्यमिति" प्रमाजनकत्वं प्रामाण्यं भ्रमजनकत्वमप्रामाण्यमित्येतदर्थः । अर्थाव्यभिचारित्वोक्तावनुत्पादिताग्निज्ञाने धूमपरामर्शेऽव्याप्तेारणायार्थपदस्थाने प्रमेयपदमभिषिञ्चतामाचार्याणामत्रैव स्वारस्यात्, धूमस्याग्न्यव्यभिचारित्वेऽपि प्रमेयाग्निव्यभिचारित्वस्याग्निप्रमाव्यभिचारेणेवोक्तिसम्भवात् , अव्यभिचारित्वपदेन नियतत्वस्य साक्षादुक्तावनन्यथा सिद्धत्वपूर्ववर्तित्वयोराक्षेपतो लाभाच, जनकत्वं च योग्यव्यक्तावन्वयव्यतिरेकसहचारज्ञानादिसध्रीचीनप्रत्यक्षगम्यं परीरप्युपगम्यत एवेति, प्रमाजनकत्वरूपप्रामाण्यस्याप्रमाजनकत्वरूपाप्रामाण्यस्य चाभ्यासे स्वाश्रयग्राह्यत्वम् , अनभ्यासे च परतो ग्राह्यत्वमविरुद्धं, प्रामाण्यग्राहकं च परं स्वाश्रयातिरिक्तं संवादकज्ञानमेव, कारणगुणबाधकभावज्ञानयोरप्येतन्मुखप्रेक्षित्वात् । न चात्र समानजातीयभिन्नजातीयकसन्तानभिन्नसन्तानविकल्पकृतदोषोपनिपातः, उभयस्वीकारात् , देवदत्तघटज्ञाने समानजातीयस्य यज्ञदत्तघटज्ञानस्य, प्रथमप्रवृत्तजलज्ञाने भिन्नजातीयस्योत्तरकालभाविनानपानावगाहनाद्यर्थक्रियाज्ञानस्यैकसन्तानगतेऽन्धकारकलुषितालोकप्रभवकुम्भज्ञाने निस्तिमिरालोकप्रभवकुम्भज्ञानस्य भिन्नसन्ताने च समानजातीयकुम्भज्ञानस्योक्तस्य संवादकत्वस्वीकारात् , एकसन्ताने भिन्नविषये संवाद्यसंवादकभावाविशेषस्य च मन्दप्रबलसामग्रीसमुत्पाद्यतयैव निरासात् , तथा च संवाद्यत्वनियामकसम्बन्धविशेषेण संवादकज्ञानं यत्र वर्त्तते तत्र प्रामाण्यनिश्चयोत्पत्तिरित्येवं नियमान तजातीयत्वपरामर्शादिकल्पनाक्लेशः, संवादकत्वव्याप्तिज्ञानाद्यपेक्षानपेक्षाविचारस्यापि तत्र क्षयोपशममुखप्रेक्षित्वात् ,
--
-
-
CACANCE
॥७
॥
For Private And Personal Use Only