________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shi Kailassagarsun Gyanmandir
कत्वानतिरेकेणातिरिक्तभावनान्वेषणप्रसङ्गाच, घटो नश्यतीत्यत्रापि घटाभिन्नाश्रयको नाशानुकूलो व्यापार इति बोधस्वीकारे कपाले घटो नश्यतीति प्रयोगानुपपत्तिः, प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानात्मन उक्तव्यापारस्य कपालावृत्तित्वात् । न च कपालवृत्तित्वस्य घटेऽन्वयः, तव मते क्रियात्वस्यैव कारकान्वयितावच्छेदकत्वात् , घटपटौ नश्यत इति प्रयोगानुपपत्तिश्च, उभयाभिन्नाश्रयकस्य प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानस्याभावात् । द्वित्ववदाश्रयकतादृशव्यापारग्रहे चैकत्र नश्यति द्वौ नश्यत इति प्रयोगप्रसङ्गः,उभयव्यापारविवक्षायां क्रियाभेदाद् वाक्यमेदापत्तिः,प्रतियोगित्वविशिष्टेत्यत्र विशेषणविशेष्यभावे विनिगमनाविरहश्च, भिन्नतया भासमानयोरपि क्रिययोः कल्पनयाऽभेदस्वीकारे च क्रियाभेदोच्छेदापत्तिः, क.क्यमात्रेण क्रियैक्याश्रयणे च जीवति म्रियते इत्यादेरपि प्रसंगात् , जानातीच्छतीत्यादावन्तत आश्रयतैव ज्ञानेच्छाद्यनुकूलो व्यापार इत्यपि स्ववासनामात्रम् , एवं सत्याख्यातार्थस्य धात्वर्थमध्ये प्रवेशनेन तत्त्वत आख्यातार्थस्यैव निरासप्रसंगात , तस्मात्पचतीत्यादौ पाकानुकूलयत्नवान् नश्यतीत्यादौ नाशप्रतियोगी जानातीच्छतीत्यादौ ज्ञानाश्रय इच्छाश्रयो देवदत्त इत्याद्याकारकः प्रथमान्तपदार्थविशेष्यक एव बोधः श्रद्धेयः, नश्यति नष्टो नंक्ष्यतीत्यादौ नश्धातोरों नाश उत्पत्तिश्चेत्युत्पत्तौ कालत्रयान्वयस्यापि सम्भवात् , आख्यातजन्यसंख्याभावनाप्रकारकबोधे च प्रथमान्तपदजन्यपदार्थोपस्थितेरितरविशेषणत्वतात्पर्याविषयत्वावच्छिन्नविशेष्यतया हेतुत्वान गौरवम् , सम्बन्धगौरवस्यादोषत्वात् , केवलं भावनाप्रकारकबोधं प्रति धात्वर्थभावनोपस्थितेः पृथग्धेतुत्वे तवैव गौरवम् । पश्य मृगो धावतीत्यत्र तमिति कर्माध्याहार्यमेव, अन्यथात्रैकवाक्यत्वाय साकांक्षककर्तृकक्रिययोर्यथाकथञ्चिदन्वयस्वीकारे “स्विद्यति कूणति वेल्लाति, निमिषति
For Private And Personal Use Only