________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
चप्रयोजकमित्यर्थः । तथा च गोपदशक्यतावच्छेदकं निक्षेपचतुष्टयानुगतगोत्वमेकं तद्व्याप्यानि च भावगोत्वादीनि नानेति निष्कर्षः । इदं तु बोध्यम् , एकानेकत्वेनानुभूयमाने वस्तुनि य एवांश एकत्वावच्छेदकः स एव द्रव्यं य एव चानेकत्वावच्छेदकः स एव पर्यायइति द्रव्यार्थिकनयेनो तासामान्यस्येव, तिर्यक्सामान्यस्याप्येकत्वस्याविशेषेण ग्रहणात् केयं वाचो युक्तिरात्मादिद्रव्ये मुख्यमेकत्वं सामान्ये तूपचरितमिति, विपर्ययस्यापि वक्तुं शक्यत्वात् , आत्मादिद्रव्यस्याप्येकग्रहणगृहीतासंख्येयप्रदेशाद्यात्मकत्वस्य सिद्धान्तसिद्धत्वात् , सामान्यस्य व्यञ्जनपर्यायरूपत्वान्न मुख्यमेकत्वमिति चेत् , एवं सति सर्वत्र शब्दानुगम एव स्यानार्थानुगमः, तथा चानुभूयमानार्थानुगताकारानुपपत्तिः । किश्चैवमृजुमूत्रनयेनात्मादिरपि प्रतिक्षणभङ्गुरार्थपर्यायात्मा कथं मुख्यैकतामनुवीत, नयान्तरेण तु मुख्यमेकत्वमुभयत्राविशिष्टम् , अस्खलितप्रतीतेरेव तत्र मानत्वात् , अनुगतप्रतीतिविषयो हि सामान्य व्यावृत्तिप्रत्ययविषयश्च विशेष इति,अनुगतप्रत्ययोऽपि चोर्ध्वतासामान्यानालम्बनस्तिर्यक्सामान्यमेवालम्बते, विषयेणैव धियां विशेषइति न्यायात्, अन्यथा साकारवादापातात् , स्वरूपास्तित्वमन्यदेशस्पर्श न सहत इति चेत् , अन्यकालस्पर्शमपि कथं सहतामिति स्मरन्तु देवानुप्रियाः, सौत्रान्तिकादिसिद्धान्तपद्धतेः स्वतो व्यावृत्तिमतां पदार्थानां कथश्चिदनुगतधीजननैकशक्तिज्वरहरणकशक्तिरिव गुडूच्यादीनां सामान्यमिति मते तु तुल्यन्यायेन विशेषस्यापि व्यावृत्तिधीजननशक्तिरूपत्वेन तदुभयाप्रत्यक्ष त्वप्रसङ्गः, तदतिरिक्तद्रव्याभावेन द्रव्यार्थतया प्रत्यक्षत्वस्यापि वक्तुमशक्यत्वात् । तस्मादेकत्वमनेकत्वं च सामान्यविशेषयोर्द्रव्यपर्यायावच्छिन्नं स्वस्वग्राहकनयापेक्षया मुख्यमेवेति दिक। येन तदपि वाक्यार्थो न स्यादिति, (३४.२.१३) ननु यज्यादिसामान्यस्य शब्दार्थतां वयं न बारयामः, किन्तु धात्वर्थत्वेनान्यलभ्यतया लिङर्थतामेव, अत एव धर्मिकल्पनात इति न्यायाद
For Private And Personal Use Only