SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ।।! ॥ ५९ ॥ www.kobatirth.org सादृश्यवृत्तीत्यर्थः । कथमुपपद्येतेति (३४. २. ५) मुख्यैकत्वस्य परानपेक्षत्वात् स एवायं गौरित्यत्र तदाश्रयणे शबलेन समानो धवल इति प्रत्ययो नोपपद्येतैवेत्यर्थः । तयोरेकसामान्य योगादिति (३४. २. ५ ) एतदनन्तरं तेन समानोऽयमिति प्रत्यय उपपद्येतैवेत्यनुपज्ञ्जनीयम्, तयोः शबलधवल योगत्वरूपैकसामान्यसम्बन्धे धवले शबलभिन्नत्वशबलवृत्तिगोत्वसामान्यरूपवत्त्वग्रहे उक्तविशिष्टबुद्धेर्नानुपपत्तिरित्यर्थः । इत्थं तटस्थेनाक्षेपसमाधाने कृते बाधकप्रसङ्गमाह - इति चेदित्यादिना, (३४. २. ५ ) सामान्यवन्ताविति ( ३४. २. ५ ) मुख्यैकत्वद्वये द्वित्वत्वेनाभिव्यञ्जकापेक्षाधीसत्त्वे समूहालम्बनस्यैव सम्भृतसामग्रीकत्वादित्यर्थः । न चैवं घटवद्भूतलमित्यत्रापि संयुक्ते घटभूतले इत्यस्यापत्तिरिति वाच्यम्, तत्रापि घटवत्वसादृश्य कृतैकत्वानाश्रयतो तदापत्तेरिष्टत्वात्, तदाश्रयणे तु धर्मिंगतसङ्ख्या पुरस्कारेणैव तदन्वयविवक्षाधीनबोधोपपत्तेरिति ध्येयम् । ननूपचरितैकत्वाश्रयणेऽपि स एवायं गौरिति धीकाले तेन समानोऽयमिति कथं न स्यात्, तत्राह अभेदोपचारे त्विति ( ३४. २. ६ ) सामान्यमिति सम्प्रत्ययः स्यादिति ( ३४.२६ ) सामान्यान्तर्निगिरणं कृत्वा तदेकत्वप्रत्ययः स्यादित्यर्थः । न तेन समानोऽयमिति ( ३४ २ ६ ) तत्समानत्वबुद्धेस्तदेकत्वबुद्धिजनन एवोपक्षीणत्वादिति भावः । सत्यगवयेत्यादि, ( ३४. २. ८ ) तथा च भावस्थापनादिगोव्यवहारहेतुसादृश्यरूपाणां गोत्वानां भिन्नत्वाभ्युपगमान्न दोषः । एकत्वव्यवहारश्च तेषु गोत्वत्वेनानुगमय्यैवोपपादनीयः । अत एव मृवस्वर्णत्वादिना सांकर्यात् कुम्भकार स्वर्णकारदण्डव र्चुलादिजन्यतावच्छेदकतया घटत्वमपि नानैवैकत्वव्यवहारश्च तत्र कथञ्चित्सौसादृश्यादिनेति परेऽपि स्वीकुर्वते । तदेकजातित्वनिबन्धनभिति ( ३४ २. १०) तेन भावगवादिनैका जातिर्यस्य स्थापनागवादेस्त For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ॥ ॥ ५९ ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy