________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
ACCORICANORMANCEOCLICK
कारकप्रत्यक्षवारणाय द्वितीयहेतुताया एव युक्तत्वात् , किञ्चिदस्तीति प्रयोगान्न नेतीष्टमेवेति चेत् , शून्यमिदं दृश्यत इति प्रयोगान्नेत्यपि किं नेष्टम् ? भावत्वेनाखण्डोपाधिना भावस्येवाभावत्वेनाखण्डोपाधिनाऽभावस्यापि प्रत्यक्षोपगमे बाधकाभावात् , नयुल्लेखस्य तु प्रतियोगिवाचकपदनियतत्वेनासार्वत्रिकत्वात् , अभावज्ञानस्य प्रतियोगिधीसापेक्षत्वात् घटत्वाद्यवच्छिन्नप्रकारत्वान्यप्रकारत्वानिरूपिताभावविषयताकप्रत्यक्षे घटादिधियो हेतुत्वान्नाभावांशे निर्विकल्पकमभाव इत्याकारकप्रत्यक्षंच जायते ईदृशप्रत्यक्षस्य निखिलप्रतियोगिज्ञानकार्यतावच्छेदकाक्रान्तत्वात्तस्य चासम्भवादिति चेत् , न, तथाप्यभावत्वनिर्विकल्पका| पत्तेः, लाघवाय घटपटोभयाभावप्रत्यक्षनिर्वाहाय च घटादिधियो घटत्वाद्यवच्छिन्नप्रकारत्वनिरूपिताभावविषयताकप्रत्यक्ष एव हेतुत्वौचित्येन केवलाभावनिर्विकल्पकस्य वारयितुमशक्यत्वाच, यदि चाभावलौकिकप्रत्यक्षस्य घटत्वाद्यन्यतमविशिष्टविषयकत्वनियमाद्विशेषसामग्री विना सामान्यसामग्रीमात्रात् कार्यानुत्पत्ते भावनिर्विकल्पकं नेत्याकारकप्रत्यक्ष वा विशेषणज्ञानादिरूपविशेषसामग्र्यभावादिति विभाव्यते, तदा द्रव्यलौकिकप्रत्यक्षस्यापि किञ्चिद्धविच्छिन्नपर्यायविशिष्टविषयकत्वनियमा. द्वस्तुमात्रस्य सविकल्पकैकवेद्यत्वमस्तु, यदि च शुद्धब्रह्मणि निर्विकल्पकविपयत्वमेव तत्वमसीत्यादिवाक्यादपि जहदजहल्लक्षणयाऽखण्डब्रह्मण्येव पदवृत्तिग्रहेण निर्विकल्पकशाब्दबोधोपपत्तिरिति विभाव्यते तदा द्रव्यार्थादेशात सर्वत्र विशेपविनिमोंकेण निर्विकल्पकपदशक्तिग्रहसम्भवात सर्वस्यैव निर्विकल्पकैकवेद्यचमस्त्विति निर्विकल्पसविकल्पकतयाऽपि पदार्थानामनेकान्त एव श्रेयान् । तदुक्तं पुरुषद्रव्यमाश्रित्य सम्मतौ-"सवियप्पणिविअप्पं, इय पुरिसं जो भणेज अविअप्पं । सविअप्पमेव वा णिच्छएण ण स णिच्छिओ समए ॥१॥" त्ति तथा च सर्वप्रमाणानां निर्विकल्पकादेशाद्विधातृत्वं सविकल्पकादेशाच निपेद्धृत्वमिति
For Private And Personal Use Only